________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २.]
प्रतिष्ठाविधानम्
२१३
सर्वरत्नोदकेनाथ मार्जयेदथ वाससा ।
[अथार्थ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम् ] मूलमन्त्राभिजतं तु दत्वाऽयं मूर्ध्नि नारद ।। १८४ ॥ समालभ्य ततो बिम्बं चन्दनायैर्विलेपनैः। वाससी परिधायाथ अलङ्कृत्य यथाविधि ॥ १८५ ॥ किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने । सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् ।। १८६ ॥ नैवेधैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः । मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् ॥ १८७ ॥
[अथ बिंबसहिते पीठे समस्ताध्वमयत्वध्यानम् ] विधिनाऽनेन संपूज्य पीठं ब्रह्मशिलान्वितम् । स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम ॥ १८८ ॥ समस्तावमयीं ध्यायेत्पीठिकां विग्रहान्विताम् ।
[पीठे आधारशक्त्यादिध्यानम् ] आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् ॥ १८९ ।।
[पीठस्याच्छादनम् ] शिला सपिण्डिकां पश्चादाच्छाद्य शुभवाससा ।
[अथ नीराजनम् ] निवेद्याचमनं चायें कुर्यानीराजनं ततः ॥ १९० ॥
[अथ रथयात्राविधानम् ] पुण्याहजयघोषेण वेदध्वनियुतेन च । शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह ॥ १९१ ॥ सुशुभैरतुलैर्विष समारोप्याचलं यथा(रथे?)। ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् ॥ १९२ ॥ तं रथं रथमार्गेण राजवेश्म प्रवेशयेत् । भक्त्याय॑पाघे दत्वादौ द्वाराग्रस्थस्य वै ततः ॥ १९३ ॥
[अथ शयनाधिवासविधानम् ] श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम् । रजसा वाऽथ कुसुमैः चतुर्वर्णैर्महोज्वलैः ॥१९४ ॥
For Private and Personal Use Only