________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २० चन्दनायफलोपेतैर्वृक्षपल्लवशोभितैः । दर्भच्छदधरैः पदृस्रग्धपरिभूषितैः ॥ १७१ ॥ हृधैः षोडशभिर्विस तत्रैवेशानदिस्थितैः ।
स्निपनकलशेषु पूरणीयद्रव्याणि ] प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ॥ १७२ ॥ गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना। त्रेताग्निभूतिना विष च (तु ?)र्थ सोदकेन तु ॥ १७३ ॥ गजगोषभशृङ्गवल्मीकाख्य (कोत्थ?) मृदा परम् । शालिक्षेत्रानदीमध्यात्पाषण्डाच पर्वतात् ॥ १७४ ॥ मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज । सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।। १७५ ॥ क्षीरेण नवमं विद्धि दना दशममुच्यते । घृतेन चैकादशकं मधुना द्वादशं द्विज ॥ १७६ ॥ सर्वैखयोदशं बीजैः फलैस्सर्वैश्चतुर्दशम् । समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ॥ १७७ ॥ हृदाऽभिमश्रितं कृत्वा एकैकं कलशं पुरा । स्नपयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ॥ १७८ ॥ उदकान्तरितेनैव सार्येण मुनिसत्तम । मसूरमाषगोधूमचूर्णैरथ विमृज्य च ॥ १७९ ॥
[बिम्बे मन्त्रन्यासविधानम् ] प्रक्षाल्य चार्च्य शिरसा मूर्तिमन्त्रं न्यसेत्ततः । मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ॥ १८० ।। कटिमूले तथोर्वोश्च जानौ गुल्फे च पादयोः । शेष मन्त्रगणं प्राग्वद्धस्तन्यासं विना न्यसेत् ॥ १८१ ॥
[सकलीकरणादि विधानम् ] सकलीकरणं कुर्यान्निष्कलीकरणं तथा । ततश्चोभयरूपात्मा(पत्वं?) सर्व पूर्वोक्तवट्विज ॥ १८२ ॥
[कर्णिकास्थितैः कलशैः स्नपनम् ] सत्यादिमन्त्रैः संस्त्राप्य कलशैः कर्णिकास्थितैः । पुष्पोदकेन प्रथमं गन्धस्वर्णोदकेन तु ॥ १८३ ॥
For Private and Personal Use Only