SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २० शिष्यस्य दीक्षाविधिना पागुक्तं च समापयेत् । बिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ॥ १४५ ॥ स्वार्थतो वा परार्थेन साधकः सुसमाहितः । शिष्यवद्देवदेवस्य किं तु बिम्ब निवेदयेत् ॥ १४६ ॥ भगवन्भूतभव्येश त्वय्येवाराधनाय च । इदं बिम्ब करिष्यामि संस्तुत्य' रजनिक्षये ॥ १४७ ॥ [शिल्पिदोषविनाशार्थस्नपनविधानम् ] ततः स्नात्वा प्रभाते तु स्नापयेत्पतिमां मुने । प्रथमं कर्मशालोत्थ दोषविध्वंसनाय च ॥ १४८ ।। 'पञ्चविंश(ति?)तु कोष्ठानि कल्पयित्वा तु पूर्ववत् । नृसिममन्त्रजप्तेन केवलेनोदकेन च ॥ १४९ ।। ततः प्रागादितो न्यस्य साधकः कलशाष्टकम् । पूर्व क्षीराम्बुना पूर्णमपरं शुद्धवारिणा ।। १५०॥ तृतीयं रत्नतोयेन होमतोयेन चापरम् । गन्धसंमिश्रितं चान्यत्फलपुष्पोदकान्वितौ ॥ १५१ ॥ शालीबीजाम्भसा पूर्णमष्टमं परिकीर्तितम् । सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिकैः क्रमात् ॥ १५२ ॥ एकैकं सप्तधाऽऽमन्त्र्य मागादौ कलशं द्विज । एकैकस्मिन्विनिक्षिप्य दर्भमृद्गोमयांस्तिलान् ॥ १५३ ॥ ततस्तेषां बहिन्यस्य तथादिक्कलशाष्टकम् । धात्रीफलोदकं पूर्वे पथ्यातोयं ततो परे ।। १५४ ॥ गळूचिक्वाथमन्यस्मिन्विभीतकजलं परे । कुमारिक्वाधितं तोयं व्याघींसलिलमेव च ॥ १५५॥ नागरोदकमन्यस्मिन्तथाऽन्यस्मिन्मधूदकम् । एतानि चक्रमन्त्रेण हृदायेनाभिमन्त्र्य च ॥ १५६ ॥ पूर्वोक्तैरथ गायत्र्या कलशैः स्नापयेत्क्रमात् । द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ॥ १५७ ॥ केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् । 1 संस्कृत्य A. 2 नृसिंहमन्त्रजप्तेनेत्यर्धस्यांनन्तरं पञ्चविंशतीत्यस्य पाठः समुचितः प्रतिभाति । 3 न्वितम् Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy