________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८ जयाख्यसंहिता
[प. २० भागेन मध्यतः कण्ठं विस्तीर्ण परिकल्पयेत् ॥ १२० ॥ परितश्चार्धभागेन कण्ठं तु परिवर्तुलम् । कण्ठांत्रितीयभागेन कुर्यात्तच्चापि चोन्नतम् ॥ १२१ ॥ तथाविधं तु कण्ठो'चे कार्य दण्डासनं शुभम् । शुक्तिसंपुटरूपैस्तु शृङ्गैरमलसारकम् (?) ॥ १२२ ॥
[अमलसारकस्योर्ध्वमाणे चक्रविधानम् ] युक्तं कुर्याद्विजश्रेष्ठ चक्र चाथ तव॑तः । ध्वजदण्डसमोपेतं द्वादशारं तु धातुजम् ॥ १२३ ॥ एवंविधानि सूक्ष्माणि प्रासादानि च नारद । कुर्यादै भूमिकोणेषु द्विपञ्चाशत्कसंख्यया ॥ १२४ ॥
[अथ प्रासादद्वारविधानम् ] द्वारं द्वाराणि वा चास्य कुर्योन्मानयुतानि च । सपीठात्यतिमानाच(मामानात् ?)दशमांशेन चाधिकम् ॥ १२५ ।। उच्छ्रितं कल्पयेद्वारं उच्छायाधैन विस्तृतम् । द्वारोच्लायप्रमाणं तु विहीनेन तु कल्पयेत् ॥ १२६ ॥ द्वारशाखाद्वयं चैव तध्वाध उदुंबरौ।। नवशाखान्वितं कुर्याच्छाखायुग्ममुदुम्बरे ॥ १२७ ॥
[ द्वाराने मण्टपविधानम् ] द्वाराग्रे मण्टपश्चात्र कार्यों द्वारत्रयान्वितः । प्रासादक्षेत्रविस्तीर्ण चतुरश्रं समं ततः ॥ १२८ ॥ कपोतभूमिपर्यन्तमुन्नतस्तत्र मध्यतः । स्तम्भद्वादशकं दद्यादित्तिकाद्वादशान्वितम् ॥ १२९ ॥ प्रासादमानयुक्त्या तु भित्तयः स्युश्च नारद । एवं हि कौस्तुभं नाम कृत्वा प्रासादमुत्तमम् ॥ १३० ॥ तन्मध्ये संप्रतिष्ठाप्या मन्त्रमूर्तिः सनातना ।
[प्रतिष्ठाकालः ] शुक्लपक्षतिथौ श्रेष्ठे सुशुभेच महाग्रहे ॥ १३१॥ स्वानुकूले च नक्षत्रे शुद्धलग्ने स्थिते(रे?)तथा।।
आषाढकार्तिके चैत्रे यत्र यत्र स्थिते रवौ ॥ १३२॥ 1 कर्ण Y 2 कर्ण Y 3 कर्णा Y 4 कर्णा Y.
For Private and Personal Use Only