________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २० ]
प्रतिष्ठाविधानम्
२०७
सङ्कोचमुन्नति तासां रचनामवधारय ॥ १०६ ॥ एकीकृत्य पुरा सर्वभूमिकाभागसञ्चयम् । भु(भ?)अन्नवतिभिर्भागैस्समैरेकाधिकैर्मुने ॥ १०७ ॥ त्रयोदशभिरङ्गैस्तु कपोतोपरि भूमिका । एकापायेन तन्मानार्वान्तं हासयेत्क्रमात् ॥ १०८ ॥ भूमिः मुनिशार्दूल यावर्ध्व तु भूमिका । भवत्येकन चांशेन अनेन विधिना भवेत् ॥ १०९ ॥ उच्छ्रायहासौ भूमीनां पार्थसङ्कोच उच्यते । कपोतपालेरूर्ध्वात्तु परितः शिखरं भवेत् ॥ ११० ॥ सप्तविंशतिभिर्भागेरूद्धसूत्रैस्समानतः । कपोतपालेराक्तु भूमावेकांशमादितः ॥ १११ ॥ परितशोधयित्वा वै एकं चोपरि भूमिषु । एकैकमंशं संशोध्य यावर्ध्व तु भूमिका ॥ ११२ ।। पञ्चधा भूमिकाः कुर्यात्क्रमाद्वै विषमांशतः। एकस्मिन्मेखलास्तिस्रो भागे कार्याापास्थिते ॥ ११३ ॥ कपोतवद्वितीयेऽस्मिन्भागे तु रचना भवेत् । मेखलाद्वितयं कुर्यात्तृतीये च तव॑तः ॥ ११४ ॥ चतुर्थ रचयेत्पश्चात्कम्बुभिः चक्रपङ्कजैः । एकैव मेखला कार्या ऊर्वभागे तु पञ्चमे ॥ ११५ ॥ मेखलापत्रपुष्पाथै रचनीयाऽथ वा द्विज । सुश्लक्ष्णा केवला कार्या सुटत्ता अश्रभूषिता ॥ ११६ ॥ एवं तु सर्वभूमीनां कृत्वा तु रचनाः शुभाः। ऊर्ध्वस्था ऊर्ध्वभूमौ तु भागः पञ्चदंशो हि यः ॥ ११७ ॥
[अथामलसारकविधानम् ] . तेनोष्णीपसमायुक्तं कुर्यादमलसारकम् । संविभज्य त्रिधा तद्वै उष्णीषं प्रथमेन वै ॥ ११८ ॥ भूमिकामाच्च निष्कान्तमीषच्छादनवविज । अवोत्तु भूमिकातुल्यः(ल्यं ?)मुलक्ष्णं रचनोनितम् ॥ ११९ ॥ तदूर्ध्व नवभिर्भागः सुसमैः संविभज्य च ।
For Private and Personal Use Only