SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ जयाख्यसंहिता [प. २० तत्पाणिपृष्ठतो यावदङ्गालाग्रं द्विजोत्तम ॥ ४० ॥ भवेत्पादस्तु दैर्येण अङ्गुलानां द्विसप्तकम् । षडङ्गुलेन विततः कूर्मपृष्ठोन्नतः क्रमात् ॥ ४१ ॥ चतुरङ्गुलदैर्येण अङ्गष्ठं द्वथशुलं ततः।। त्रिगुणं वेष्टनं तस्य दैयोत्तत्पादतोऽधिका ॥ ४२ ॥ पादप्रदेशिनी कार्या तत्समीपस्थितागुलिः । अङ्गुष्ठस्य समा कार्या तत्पादोना त्वनामिका ॥४३॥ अनामिकायाः पादेन हीना पादकनीयसी। व्यंशेन विद्धि सर्वासां पर्वमानं तु नारद ॥ ४४ ॥ पान नखाः कायर्या अर्धेन्दुसदृशाः शुभाः। पत्रिंशदङ्गुलं मानं पृष्ठमंसावधि स्मृतम् ॥ ४५ ॥ गोमुखं वा क्रमान्निम्नं यावदिशाङ्गुलं भवेत् । मध्यप्रदेशाद्विततः पृष्ठवंशोन्नतः क्रमात् ॥ ४६॥ सुश्लक्ष्णश्चाविभक्तश्च विभक्तश्च यथा मुने ॥ संमीलनं मीनयुक्तं कक्षा पञ्चाङ्गुला स्मृता ॥ ४७ ।। सुवर्तुलौ स्फिजौ कायौँ विस्तारात्षोडशाङ्गुलौ । मुविभक्ते च पीने च करिकुम्भोपमे शुभे ॥ ४८ ॥ अधस्तात् स्कन्धशीर्षस्य बाहुः स्याद्वादशाङ्गुलः । अष्टादशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम ॥ ४९ ॥ मणिबन्धप्रदेशस्तु तत्र व्यङ्गुल उच्यते । मध्यमाङ्गुलिपर्यन्तं मणिबन्धावसानतः॥ ५० ॥ द्वादशाङ्गुलमानं तु स्कन्धं स्यात्परिवर्तुलम् । चतुरङ्गुलविस्तीर्ण परिधेस्त्रिगुणं स्मृतम् ॥ ५१ ॥ मूलतचोपवाहुर्वै पञ्चाङ्गुलमुदाहृतम् । त्रिगुणं च तथा नाहं तं क्रमाद्रासयेन्मुने ॥ ५२ ॥ गोपुच्छसदृशाकृत्या तथा स्याव्यङ्गुलं मुने । मणिबन्धप्रदेशस्तु विस्तारेण च वेष्टनात् ॥ ५३ ॥ नवाशुलप्रमाणेन पाणेर्मानमतः शृणु। मणेरङ्गुलिमूलान्तं विद्धि सप्ताङ्गुलं सदा ॥ ५४॥ पञ्चाङ्गलप्रमाणेन तिर्यग्विस्तरमुच्यते । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy