________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २० ]
प्रतिष्ठाविधानम् अष्टाङ्गुलौ स्मृतौ चांसौ विस्तरेण महामते । प्रोन्नतत्वेन वै कुर्यात्स्कन्धमूर्ध्व षडङ्गुलम् ॥ २६ ॥ उच्छ्रायेण तु नाभ्यन्तं स्पन्दादै द्वादशाङ्गुलम् । परिधि नाभिदेशस्य चत्वारोंऽशास्तु पञ्च वै ॥ २७ ॥ अङ्गुलं नाभिरन्धं तु क्रमानिम्नं द्विरङ्गुलम् । कुर्यात्सदक्षिणावर्त नाभिमेदान्तरं मुने ॥ २८ ॥ उच्छ्रायेण तु संपाद्यं सुसमं द्वादशाङ्गुलम् । नाभ्यावधेस्तदुदरं संपाचं चतुरङ्गुलम् ॥ २९ ॥ शेषं तत्कटिभूभागं विस्तारेणोदरं मुने । द्विसप्ताङ्गुलमानं स्यात्परिधेस्त्रिगुणं हितत् ॥ ३०॥ त्रिषदकागुलविस्तीर्ण कटिमानं विधीयते । चतुः पञ्चाशदगुल्यः परिधिस्तु कटेः स्मृतः ॥ ३१ ॥ षट्त्रिंशाङ्गुलमानेन परिधिस्तु कटेः स्मृतः(?) । कुर्यात्मजननं विप्र उच्छ्रायेण षडङ्गुलम् ॥ ३२ ॥ द्वयङ्गुलेन तु विस्तीर्ण वृषणौ चतुरङ्गलौ । त्रिचतुर्मुष्क(?)संपूर्णौ ऊरुदण्डौ ततो द्विज ॥ ३३ ॥ उच्छ्रायेण प्रकर्तव्यौ चतुर्विंशाङ्गुलौ समौ । प्रथुमूलौ क्रमात्मामा संलग्नौ गजपाणिवत् ॥ ३४ ॥ विस्तारेणाथ वा कुर्यादूरुमूलं नवाङ्गुलम् । षट्त्रिंशाङ्गुलमानं स्यादूरुमध्ये तु वष्टनम् ॥ ३५ ॥ ऊरुभ्यामवसाने तु वेष्टितञ्चैकविंशतिः । ध्यङ्गुलं मुनिशार्दूल परितो जानुमण्डलम् ॥ ३६ ।। विस्तारेणोन्नतश्चापि जानुभ्यामथ मे शृणु । द्विद्वादशेनाङ्गुलानां जडोच्छ्राय इहोच्यते ॥ ३७ ॥ षडॉग्लेन विस्तीर्ण जड्डामूलं प्रकीर्तितम् । जडामध्ये तयो हो
॥३८॥ जडावसाने विस्तारे ज्ञेयः पञ्चाङ्गलो मुने । तमेव त्रिगुणीकृत्य तस्यैव परिधिर्भवेत् ॥ ३९ ॥ गुल्फादधस्थ्यंगुलं स्यात्पदोच्छ्रायस्तु नारद ।
For Private and Personal Use Only