________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१८]
अभिषेकाख्यानम्
१९५
[ विष्णुहस्तप्रदानम् ] इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः ॥ ८२॥ मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम् । संपूज्य गन्धपुष्पाचैर्दद्यात्तस्य च मस्तके ।। ८३॥
[शिष्येण गुरोः पादोदकप्राशनकर्तव्यता] न्यस्यासनं ततः शिष्यः पादयोनिक्षिपच्छिरः । पक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् ॥ ८४ ॥ तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः। पूर्ववत्पूजयेद्च्या आत्मनाज्य धनेन च ॥ ८५ ॥ अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ।
[साधकाभिषेकातिदेशः ] एवमेव विधानेन साधकं चाभिषेचयेत् ॥ ८६ ॥ समालम्भनपूर्व यदन्तधावनपश्चिमम् । तस्य सर्वोपकरणं दातव्यं नियमविना ॥ ८७॥
[पुत्रकस्यामिषके देयविशेषः ] पूजाधिकारशास्त्रं च पुत्रकस्य प्रदीयते ।
[समयज्ञस्याभिषेके देयविशेषः] केवलं समयज्ञस्य प्रदद्याच्छास्त्रपुस्तकम् ।। ८८॥ अभिषेकावसाने च आज्ञायां योगदर्शने ( ? )।
[ अभिषेकस्य श्रेयःप्रभृत्यनेकफलसाधनता] श्रेयोऽर्थी विधिनाऽनेन यः स्नायाच्छ्रेय आप्नुयात् ॥ ८९ ॥ जयार्थी वाऽथ भूपालो भाग्यार्थी वाऽथ दुर्भगः । पुत्रकामाऽथ वनिता पतिकामाऽथ कन्यका ॥ ९॥ चिरायुषोऽर्थी यः कश्चित्स्लायात्संवत्सरं प्रति । तस्यापमृत्युनाशश्च भवति यचिरात्ततः ॥ ९१ ॥ यावदब्दानि कुरुते तावद्रोगविवर्जितः। वलीपलितनिर्मुक्तः सुभगः स्थिरयौवनः ॥ ९२ ॥
सर्वकामानवाप्नोति देहान्ते शाश्वतीं गतिम् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अभिषेकाख्यानं नामाष्टादशः पटलः ।
For Private and Personal Use Only