________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिषेकाख्यानम् वेदिमध्यगतं चैव अभिषेकासनं शुभम् ॥ ५३ ॥ मन्त्रपीठत्वमापन्नं लाजपकरशोभितम् । तस्योपरि स्थितं कृत्वा शिष्यं मन्त्रशरीरिणम् ॥ ५४ ।। गत्वाऽथ मण्डलायं तु विज्ञाप्यः परमेश्वरः । त्वच्छासनप्रपन्नानामधिकारं करोम्यहम् ॥ ५५॥ शिष्यमात्मसमं भक्तमहं यास्यामि ते लयम् । लब्धानुज्ञस्ततो विष पूर्वदिक्संस्थितश्च यः ॥ ५६ ॥ कलशं पूजयित्वा तं स्वमन्त्रेण स्वमुद्रया । सहस्रपरिजप्तेन सम्यगष्टाधिकेन च ॥ ५७ ॥ शतजप्तेन दशभिः सकृत्युवादितः क्रमात् । ध्वात्वा चामृतसंपूर्ण मन्त्रं रत्नोज्वलं प्रभुम् ॥ ५८ ॥ तस्य मूनि शुभं दत्वा कलशं मन्त्रपूजितम् । ततः क्रमेण कलशैः सकलैरभिषेचयेत् ॥ ५९ ॥ पठद्भिर्माङ्गलीयानि ऋक्सामानि यजूंषि च । मङ्गलैर्दीयमानस्तु तन्त्रीवाद्यसमन्वितैः ॥ ६० ॥ शङ्खशब्दैः सपटहेर्जयशब्दसमन्वितैः । अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ॥ ६१ ॥ मन्त्रोपकरणं सर्व तस्य संपतिपाद्य च । हस्तद्वयं च वक्तव्यं प्रणम्या( त्या ? )संस्थितस्य च ॥ ६२ ।। सहस्रकिरणामं तु सूर्यबीजेन चाच्युतम् । स्मरेदक्षिणहस्तस्थं पझे चानन्तपल्लवे ॥ ६३ ॥ कलाद्वादशसंयुक्ते अकाराद्यैरदारुणैः (?)। द्रव्यशुद्धिविदाहार्थं द्रव्योत्पत्तौ ततः स्मरेत् ॥ ६४ ॥ सितं सहस्रपत्राढ्यं कलाषोडशकेसरम् । सोमबीजेन तन्मध्ये स्मरेनारायणं प्रभुम् ॥ ६५ ॥ सवन्तममृतं दिव्यं द्रव्योत्पादनकर्मणि । भौतं तान्मात्रिकं मान्नं विग्रहं चास्य दर्शयेत् ॥ ६६ ॥ विज्ञानपदवीं सर्वा स्वानुभूतामनेकशः । स्थावलक्षक्रमेणैव वक्तव्या विविधाश्च वै ॥ ६७॥
For Private and Personal Use Only