________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाल्यसहिता
[प.१८ हुत्वा शास्त्रोक्तविधिना अर्चयित्वाऽच्युतं प्रथम् । अनुग्रहाभिषेकौ च स्वयमात्मनि कल्पयेत् ॥ १५ ॥ स्वजातीयगुरोविन अभावादिदमाचरेत् । अनुकल्पं द्विजाचैश्च आत्मसंस्कारसिद्धये ॥ १६ ॥
[ सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः ] गुरौ वर्णोचमे विप्त विद्यमाने श्रुतेऽपि वा। स्वदेशतोऽपि वाऽन्यत्र नेदं कार्य शुभार्थिना ॥ १७ ॥ स्वदेशतोऽपि यः कुर्याद्यत्र यत्र विपर्ययम् । तस्येह पुत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत ॥ १८ ॥
[उत्तमवर्णस्य दीक्षादिविधानेऽवरवर्णस्यानधिकारः ] क्षत्रविद्शूद्रजातीयः मातिलोम्यान दीक्षयेत् । त्रितत्वविद्विजातीयो दीक्षयेदनुलोमतः ॥ १९ ॥
[समयज्ञाभिषेकविधानप्रकारः] मूलमन्त्रोपजतेन तद्वयाप्तिविभवं विना । समयज्ञस्य संपाचं गुरुणाचाभिषेचनम् ॥ २० ॥
[पुत्रकस्याभिषेकविधानप्रकारः] मन्त्रोचारणमात्रेण ध्यानसंवित्तिवर्जितम् । ध्यात्वाप्य तत्त्वनिश्रेणी नवधा बीजसंस्थिताम् ॥ २१ ॥ एकोनाधिष्ठितां सर्वा मूलेन सकलात्मना । तां तु संपूज्य संस्मृत्य सृष्टिधर्मक्रमेण तु ॥ २२ ॥ मनसा तु मुनिश्रेष्ठ पुष्पैर्वा विविधैः शुभैः । ततोऽभिषेको दातव्यस्तत्वाख्यः पुत्रकस्य च ॥ २३ ॥
[ साधकाभिषेकप्रकारः] साधकस्यापि वक्ष्यामि अभिषेकविधि क्रमात् । ध्यात्वाऽथ तत्त्वनिश्रेणी संहारं सृष्टियोगतः ॥ २४ ॥ नवधा त्रिविधेनैव भिनां सूक्ष्मादिना त्वथ । मन्त्रश्रेणी च नवधा क्रमान्यस्य पुरोदिताम् ॥ २५ ॥ तत्रैव सृष्टिं योगेन सकलं निष्कलं द्विधा । पूजयित्वा विधानेन कलयोषु पृथक् पृथक् ॥ २६ ॥
For Private and Personal Use Only