________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १८] अथाभिषेकाख्यानम्
१८९ [अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य सर्वेषाममिषेकविधानेऽधिकारः]
आचार्यस्सर्ववर्णानामाश्रमाणां तथैव च । तथा सामयिकादीनां त्रयाणां च विशेषतः ॥३॥ प्रभुत्वेनाभिषक्तव्यमधिकारार्थमेव च । तेनापि सर्वजन्तूनां कार्यों नित्यमनुग्रहः॥४॥ परितुष्टेन सततं दातव्यमभिषेचनम् ।
ब्राह्मणः पञ्चकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ॥ ५॥ [ ब्राह्मणाद्यभावे क्षत्रियादीनां स्वस्वावरवर्णानां शिष्याणामनुग्रहाभिषेककरणेऽधिकारः ]
तदभावाविजश्रेष्ठ शान्तात्मा भगवन्मयः । भावितात्मा च सर्वज्ञः शास्त्रज्ञः सक्रियापरः ॥६॥ सिद्धित्रयसमायुक्त आचार्यत्वेभिषेचितः । क्षत्रविदशूद्रजातीनां क्षत्रियोनुग्रहक्षमः ॥७॥ क्षत्रियस्यापि च गुरोरभावादीदृशो यदि । वैश्यास्यात्तेन वै कार्यो द्वयोनित्यमनुग्रहः॥८॥ सु(स? )जातीयेन शूद्रेण तादृशेन महाधिया। अनुग्रहाभिषेकौ च कार्यों शूद्रस्य सर्वदा ॥९॥
[ उत्तमवर्णस्याविदुष उपायेन संबोधप्रापणम् ] उपायेन भयाल्लोभात्सर्वैमूखो द्विजोत्तमः । सन्मार्गे विनियोक्तव्यः शास्त्रेण क्रियया तथा ॥ १०॥
यावत्संबोधमाप्नोति स्वात्मना शुभलक्षणम् । [प्राप्तसंबोधस्य तस्य विनाऽनुग्रहबुद्धया सकलक्रियाधानपूर्वकं कालेन कृतकृत्यतापादनम् ]
पूर्वोक्तेन विधानेन इष्ट्वा यागेन चाच्युतम् ॥ ११ ॥ विधिनाऽग्नौ च सन्तर्प्य स्नापयित्वा द्विजोत्तम । विनाऽनुग्रहबुध्या वै तस्य कार्या क्रियाखिला ॥१२॥ मन्त्रेणार्षापयेद्विष्णुमर्थितो पवेशितम् । कृतकृत्यो यदा स स्याकमात्कालान्तरेण च ॥ १३ ॥
आचारेण तथा नीत्या शास्त्रेण कृपया तथा। [ सजतीयस्यापि गुरोरलामेन स्वस्य स्वेनैवानुग्रहाभिषेकयोः कर्तव्यता ]
तथा शास्त्रोक्तविधिना स्वयमिष्टा जगद्गुरुम् ॥ १४ ॥
For Private and Personal Use Only