________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाल्यसंहिता
[प. १७-१८ कुर्यादनुग्रहं जन्तोः कस्यचिद्वा शठस्य च ॥ ५२ ॥ भीतस्य च विनीतस्य भक्तस्यार्तस्य कारयेत् । प्रायश्चित्तैः सदा शान्ति कुर्यानीतिच्युतस्य च ॥ ५३॥ विभागो लिंगिनां चैव वेदनीयः सदैव हि । बैखानसादि सर्वेषां वैष्णवानां च नारद ॥ ५४॥ प्रसन्नवाभिषिञ्चेत भक्तं भव्यमनेकधा । मोक्षार्थमाधिपत्यार्थ दुःखोपशमनाय च ॥ ५५ ॥ कुण्डमण्डलपद्मादीन्सूत्रयेत्पतिमादिकान् । शिष्याणामुपकारार्थं दर्शयेशिल्पिनस्तथा ॥५६॥ कुर्यास्सम्यक्प्रतिष्ठानं देवदेवस्य वै विभोः । समदृष्टया तथाऽन्येषां देवानां स्थापनं द्विज ॥ ५७ ॥ अवैष्णवेषु मत्र्येषु भक्तेष्वन्यत्र सर्वदा । तच्छासनं गुरूणां च अभयात्मार्थितोऽपि तैः ॥ ५८ ॥ स्वकल्पोक्तविधानेन कुर्यात्सर्वेष्वनुग्रहम् । अभ्यर्थितस्तदा विष यजनं च पवित्रकम् ॥ ५९॥ स्वशिष्यपरशिष्याणां लोभनिर्मुक्त आचरेत् । अशास्त्रज्ञे(?) चान्येषु गुरुभावस्थितेन च ॥ ६० ॥ चुम्बुकत्वं न कुर्याद्वै तर्केणागमतोऽपि वा। नातीव संग्रहं कुर्यान्मात्रावित्तस्य नारद ॥ ६१ ॥ नित्यमभ्यस्यति त्यागमनित्यं भावयेद्भवम् ।
एवं लक्षणसंपन्नो यस्स आचार्य उच्यते ॥ ६२ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां शिष्यमेदाख्यानं नाम सप्तदशः पटलः ।
अथाभिषेकाख्यानं नामाष्टादशः पटलः ।
श्रीभगवान् -
। अभिषेकेऽधिकारः] अथाभिषेचयेच्छिष्यं सर्वलक्षणसंयुतम् । मुशान्तं स्पष्टमनसं संयतं देवपूजकम् ॥ १॥ गुरुभक्तं जिताक्षं च पूर्वोक्तसमयस्थितम् ।। एवंविधस्य सततं कर्तव्यमभिषेचनम् ॥२॥
For Private and Personal Use Only