________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६-१७ [गुरुशिष्ययोदीक्षाविधानफलम् ] एवं विधिविधानेन दीक्षां यः कुरुते गुरुः । यस्य हि क्रियते विष समोक्षमधिगच्छति ॥ ३६८ ॥ कुरु गुप्तमिदं सर्वमभक्तानां च सर्वदा।। दर्शयस्व च भक्तानामास्तिकानां विशेषतः ॥ ३६९ ॥ इति श्रीपञ्चरात्रे जयाख्यसंहितायां दीक्षाविधानं नाम षोडशः पटलः । अथ शिष्यभेदाख्यानं नाम सप्तदशः पटलः ।
नारदःसाधकाचार्यसमयिपुत्रकाणां यथार्थतः । ज्ञातुमिच्छामि भगवन् त्वत्तो लक्षणमुत्तमम् ॥ १ ॥ समयज्ञश्च किं कुर्यात्पुत्रकः किं समाचरेत् । साधकः कथमास्ते वै किमाचार्यः करोति च ॥२॥
श्रीभगवान्
[समयिलक्षणम् ] यस्य मन्त्रे पराभक्तिब्रह्मचारी जितेन्द्रियः । सत्यवाक्चतुरो धीरो हृीश्रद्धाबुद्धिमांश्च यः ॥ ३॥ दृढव्रतः शुचि चैव गुर्वाराधनतत्परः । समाचरेच्छुभं नित्यं प्रसन्नात्मा प्रियंवदः ॥ ४ ॥ मातानुज्ञस्सवित्तोऽपि यागेन गुरुणार्चऽयेत् । पश्येत्तथाऽन्यतो गत्वा यागं वै यत्र यत्र च ॥५॥ पूजितं तर्पितं विष्णोः शास्त्रं च शृणुयात्सदा । पालयेत्समयान्सर्वान्मन्त्रस्मरणपूर्वकान् ॥ ६ ॥ शङ्खचक्रगदापद्ममूर्तिमुद्रासमन्वितः। द्वादश्यादिषु कालेषु पूजयेदवनं विना ॥७॥ पठनं श्रवणं कुर्यात्सततं चार्चनं विना । शास्त्रार्थ विधिवद्नात्वा नयाचारसमन्वितः॥८॥ पालयन्गुरुगेहाच व्यवहारं सदुत्थितम् । एवं लक्षणसंपूर्णो गुरुमभ्यर्थयेत्पुनः ॥९॥
For Private and Personal Use Only