________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९]
दीक्षाविधानम् मन्त्रपूजाधिकारार्थ होमं कुर्यात्ततोऽपरम् । प्रतिमन्त्रस्य जुहुयात् पञ्चपञ्चाहुतिक्रमात् ॥ २२३ ॥ अधिकारो भवत्येवं जपेग्नौ च श्रुतेचने ।
[अथ मलशोधनहोमः ] दीक्षायां 'मलशुद्धयर्थ मूलमन्त्रस्य वै शतम् ।। २२४ ॥ अष्टाधिकं घृतेनैव तिलेनापि यथेच्छया । देवीनां पञ्चविंशेन त्वङ्गानां दशकेन तु ॥ २२५ ॥ सिंहादिष्वष्टकेनैव सप्तकेन ततो मुने । विहितं कौस्तुभादीनां षड्भिस्सत्यादिषूदितम् ॥२२६ ॥ सप्ताक्षरस्य मन्त्रस्य विहितं पञ्चकेन वै । पूर्णाहुति घृतेनैव मूलमन्त्रेण पातयेत् ॥ २२७ ॥ तदा दीक्षा भवेच्छश्चन्मान्त्री सामान्यलक्षणा | विना स्वरूपज्ञानेन यया सन्तारयेद्गुरुः ॥ २२८ ॥ मन्त्रस्तु संपुटीकुर्यात् किन्तु संज्ञा(ज्ञा?)शिशोजि । इत्येतन्मन्त्रदीक्षायां केवलायां समासतः ॥ २२९ ॥
[अथ दीक्षायां ज्ञातव्यविशेषविधानम् ] हवने लक्षणं प्रोक्तं सतत्त्वायामतश्शृणु । दीक्षाकाले तु गुरुणा ज्ञातव्या तत्त्वपद्धतिः ॥ २३० ।। ज्ञेयानुष्ठानभावेन यथा तु सुकरो भवेत् । मन्त्रशुद्धिमभावाच शुद्धो भवति वै गुरुः ॥ २३१ ॥ गुरुशुद्धिमभावाच मन्त्रग्रामो भवेस्थिरः । पागुक्तेन विधानेन हवनादपि सन्धनात् ॥ २३२ ॥ दीक्षाकर्मणि विस्तीर्णे मध्यमे वाऽवाधारय ।
[नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता ] गन्धतन्मात्रपूर्वैस्तु तन्मात्रैः शोधितः क्रमात् ॥ २३३ ।। भवन्त्यमी विशुद्धास्तु पृथिव्याद्याः खपञ्चमाः। तेषामन्तर्गतौ शेयौ द्वौ वर्गाविन्द्रियात्मकौ ॥ २३४ ॥ कर्मेन्द्रियात्मक पूर्व ततो बुद्धीन्द्रियात्मकः ।
एवं तन्मात्रशुद्धया वै विंशत्तत्वं विशोधितम् ॥ २३५ ।। 1 मध्य A.
For Private and Personal Use Only