________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६ अहङ्कारेण शुद्धन मनश्शुद्धिरिहोच्यते । बुद्ध्या तु शुद्धया शुद्धाः प्रत्ययाः सविपर्ययाः ॥२३६ ॥ प्रधानेन तु शुद्धेन व्यक्ताव्यक्तं तु शोधितम् । ईश्वरेण तु शुद्धेन शुद्धश्चित्पुरुषो भवेत् ॥ २३७ ।। अशोध्यं परमं तत्वं यत्र केवलतां व्रजेत् । तत्रैव तु लयं कुर्यात्परब्रह्मस्वभावके ॥ २३८ ।। ज्ञानदीक्षाक्रमेणैव तत्त्वशुद्धेरनन्तरम् । एवं वेदविदां श्रेष्ठः पुरा ज्ञात्वा समासतः ।। २३९ ।।
[ मुमुक्षुशिष्याणां तत्त्वशोधने विशेषविधानम् ] मुमुक्षूणां च शिष्याणामध्वानं शोधयेत्क्रमात् । याक्तद्विस्तरेणैव श्रृणुष्वावहितो मम ॥ २४० ॥ [ बह्रौ भाविते मन्त्रमयमूर्तिस्वरूपे शिष्यतत्त्वानामुपसंहरणप्रकारः ] वह्नौ तु व्योमवद्धयात्वा न्यस्तो मन्त्रगणो हि यः । सर्वव्यापकरूपेण तन्मध्ये तत्त्वपद्धतिम् ॥ २४१ ॥ समग्रा योजयेडयात्वा तत्त्वात्तत्वं क्रमेण तु ।
[ निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः ] बद्धपद्मासनं शिष्यं कृत्वा चात्मसमीपगम् ।। २४२ ।। निरीक्ष्य पूर्ववत्लोक्ष्य मन्त्रहस्तेन संस्पृशेत् ।
[अथ ततस्तत्वानां सृष्टिभावनम् ] ईश्वरामिपर्यन्तां पुरा पूर्वी तु वै त्रिधा ॥ २४३ ॥ सृष्टिं कुयोत्स्वरूपस्था तमेवमुपसंहरेत् । ततः शिष्यतनौ सम्यक्सृष्टिं स्पष्टां स्मरेत्क्रमात् ॥ २४४ ॥ येन शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम् । संवोधमावहत्याशु दीक्षाकाले छुपस्थिते ।। २४५ ॥
[अथानुशाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम् ] ततः कुंभस्थितं मनं गत्वा संपार्थ्य चेतसा । लब्धानुज्ञस्समादाय पाशसूत्रं पुटस्थितम् ॥ २४६ ॥ यायात्कुण्डसमीपं तु तमुद्घाटय निधाय वै ।
[ मूलमन्त्रेण होमः ] सहस्रेण शतेनाथ आहुतीनां तु तर्पयेत् ॥ २४७ ॥
For Private and Personal Use Only