________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
जयाख्यसंहिता लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् ॥ २११ ।। तपस्यन्वै तथाऽऽचार्यो गायन्ती च वराङ्गना । मनामीतिकराचान्ये लोके शंसापदङ्गताः ॥ २१२ ॥ सर्वे स्वप्नाश्शुभा विद्धि सिद्धिमोक्षफलपदाः । अतोऽन्ये विपरीताश्च मनसः खेददाश्च ये ॥ २१३ ॥ गर्हिता लोकविद्विष्टास्स्वप्नास्ते शुभावहाः ।
[अशुभस्वप्नदोषपरिहाराय होमविधानम् ] पृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ॥ २१४ ॥ केवलेनाथवाऽऽज्येन सिंहमन्त्रेण शान्तये ।
[न्यूनातिरिक्तप्रायश्चित्तार्थ होमस्य विधानम् ] सशिष्योऽथ गुरुस्नात्वा पूर्ववत्संपविश्य च ॥ २१५ ॥ ऊनातिरिक्तशान्त्यर्थं सर्वमन्त्रैश्च होमयेत् ।
[पूर्वोक्तप्रकारेण मण्डलपूजनादि ] मण्डलं पूजयेत्पश्चात् पूर्वोक्तविधिना मुने ॥ २१६ ॥ सर्व होमावसानं तु कृत्वा शिष्यान् प्रवेशयेत् ।
[आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम् ] क्रमात् पुष्पाञ्जलिं कृत्वा बद्धनेत्रांश्च पूर्ववत् ॥ २१७ ॥ क्षेपयेच्च हिरण्याढ्यं मणिमुक्ताफलान्वितम् ।
[ उद्घाटितनेत्रैः शिष्यैः गुरुनमस्कारादेः कर्तव्यता ] उद्घाट्य नयने पश्चादखिलं संपदर्शयेत् ॥ २१८ ॥ गुरोर्वै पादपतनं कृत्वाऽष्टाङ्गेन भक्तितः। प्रदक्षिणद्वयं कुर्यान्मण्डले नतमस्तकः ॥ २१९ ॥ बजेदनेस्समीपं तु उपविश्य ततो गुरुः । [अथ गुरुणा कर्तव्यहोमविशेषविधानम् तत्र मन्त्रतृप्तिहोमः ] विन्यस्य वढेगेंहे तु मन्त्रमण्डलमुत्तमम् ॥ २२० ॥ स्वाहान्तान् होमयेद्भयो मन्त्राविधिपुरस्सरान् । देवीरङ्गानि सत्यास्त्रं ? तिलैराज्येन शक्तितः ॥ २२१ ॥ मन्त्राणां तर्पणं कृत्वा सर्वेषां मुनिसत्तम ।
[मन्त्राधिकारहोमः ] दीक्षारम्भनिमित्तार्थ दशभागव्यवस्थया ॥ २२२ ॥
For Private and Personal Use Only