________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ११]
दीक्षाविधानम्
शतमावर्तयन्मन्नम पादं तु शक्तितः ।
[स्वप्नाधिपतिमन्त्रः] ओंकारः प्राक्ततः प्राणो लोकेशोपरि संस्थितः ॥ १९९ ॥ तदृद्ध्वं व्यापकं चान्द्रं हीङ्कारस्तदनन्तरम् । स्वप्नाधिपतये दद्यात्पदं चाथ षडक्षरम् ॥२०॥ रजनीश्वराय शब्दं वै विष्णवे त्र्यक्षरं ततः। स्वाहा समन्वितो विंशत्यक्षरः स्वममत्रराट् ॥ २०१॥
[अर्धरात्रे शयनादुत्थाय गुरुणा विधेयो विशेषः] ततोऽर्धरात्रसमये उत्थाय शयनाद्गुरुः । प्रक्षालिताघ्रिपाणिश्च आचम्य न्यासमाचरेत् ॥ २०२ ॥ स्थलस्थं धूपयित्वाऽनिमुत्थाप्यैकीकृतं स्मरेत् । कुम्भस्थे मन्त्रमृतौ तु प्राग्वत्कुयोच मण्डलम् ॥ २०३ शोभयेच्च तथा विप्र दद्यादस्वाभिमन्त्रितम् । शराष्टकं बहिर्दिा सफलं पुष्पमण्डितम् ॥ २०४॥ शराश्रितं त्रिधा छिन्नं सूत्रं वै पञ्चरङ्गकम् । वस्त्रैः कृत्वा परिच्छन्नं यथान्यो नावलोकयेत् ॥ २०५ ॥ कृतो वा क्रियमाणो वा यस्मानापूजितो मुने । दर्शनीयो रजःपातः कस्यचित्सिद्धिमिच्छता ॥ २०६ ॥
[प्रभाते शिष्याणामुद्बोधनम् ] प्रभाते बोधयेच्छिष्यान् स्वप्नं पृच्छेच्छुभाशुभम् ।
[शुभाशुभस्वप्नभेदनिरूपणम् ] गुरुदेवद्विजा:कन्या गोगजाश्चाश्चकेसरी ॥ २०७॥ दर्पणं शङ्कमेयौ च तत्रीवाद्यं च रोद( शोभ?)नम् । ताम्बूलभक्षणं चैव तथा दध्यभिवन्दनम् ॥ २०८ ॥ सिद्धानमाममांसं च मधस्त्रीमदिरासवम् । छत्रं यानं सितं वस्त्रं तथाऽन्यत् श्वेतचन्दनम् ॥२०९ ॥ माल्यं मुक्ताफलैहोरो भूयःपूर्णोदितश्शशी। प्रचण्डकिरणः खस्थो निम्नगाऽथ महोदधिः २१० ॥ प्रफुल्लपादपश्शाली कुङ्कम रोचना मधु । 1 विद्या Y.
For Private and Personal Use Only