________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७० जयाख्यसंहिता
[प. १९ पञ्चगव्यमथो दद्यादुर्भुक्तानां विशुद्धये ।
[चरुशेषभक्षणम् ] आचम्य चरुशेषं तु अश्नीयाच्छिष्यसंयुतः ॥ १८८ ॥
[अथ दन्तकाष्ठचर्वणतत्प्रक्षेपणविधानम् ] भुकास्त्रेणाभिमन्याथ दन्तकाष्ठं तु भक्षयेत् ।
[ अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः ] नवाष्टसप्तपदश्चाङ्गग्लैाह्मणपूर्वकम् ।। १८९ ॥ दद्यात्स्त्रीबालपर्यन्तं गुरोर्वै द्वादशाङ्गुलम् । एकापायेन चैतस्मात् समयज्ञावसानतः ॥ १९० ॥ भक्षयित्वा विनिक्षिप्य तौ(सं?)क्षाल्य प्रयतस्ततः । स्पष्टं कृत्वा खवक्त्रं तु अग्रपातं विलोक्य च ॥ १९१ ॥
[शुभाशुभपरिज्ञानम् ] उदक्पश्चिमऐशानमाङ्मुखं पतितं तु वा । शुभं शेषासु विमेन्द्र दिक्षु चाशुभमादिशेत् ॥ १९२ ॥ स दोषावाशुभे पाते निर्दोषाश्च शुभे स्मृताः ।
[अशुभशान्त्यर्थो होमः ] तत्राशुभोपशान्त्यर्थं प्रभाते जुहुयाद्गुरुः ॥ १९३ ॥ शतं सहस्रं साष्टं वा यथाशक्यथवा द्विज । मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानथ ॥ १९४ ।। अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन तु । दोषं जहि जहीत्येव पदं नामावसानगम् ।। १९५ ॥
[अथ शयनविधिः] आचम्य पाणिपादं तु प्रक्षाल्य शिशुना सह । सर्व प्रदक्षणीकृत्य त्रिस्थानस्थक्रमेण तु ॥ १९६ ॥ माग्दक्षिणशिरो वाऽथ शयनं कल्पयेद्गुरु।। दर्भास्तत्रास्त्रमन्त्रेण क्षिपेत्सिद्धार्थकांस्तथा ॥ १९७॥ भगवन्तं स्मरंस्तत्र नारायणमजं विभुम् ।
उपोष्य रजनीमेकां नियमस्थां तु कारयेत् ॥ १९८ ॥ 1 पवनं A.
For Private and Personal Use Only