SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. १६ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षाविधानम् १९९ सामान्या हि (त्रि ? ) विधा चान्या सर्वेषां भावितात्मनाम् । संक्षिप्ता मध्यमा सा च तृतीया चातिविस्तरा ॥ ५५ ॥ [ संक्षिप्तादित्रयस्य फलभेदः ] क( अ ? )ल्पकालं च संक्षिप्ता भोगं यच्छति सङ्कटम् । मध्यमा मध्यमं भोगं तथा काळं प्रयच्छति ।। ५६ ॥ अनन्तभोगफलदा भवेद्भोगाभिलाषिणाम् । प्रभावाद्धोमपूजाभ्यां विस्तीर्णा कालमक्षयम् ॥ ५७ ॥ समत्वमपवर्गे तु भवेद्दीक्षात्रयस्य च । [ विशेषदीक्षायाः पञ्चविधत्वम् ] विशेषाख्या च या दीक्षा पञ्चधा सा व्यवस्थिता ॥ ५८ ॥ [ पञ्चविधासु विशेषदीक्षासु प्रत्येकमधिकारिभेदनिरूपणम् ] प्रथमा समयज्ञानां बलानां विष्णुचेतसाम् । भक्तानां कन्यकानां च द्वितीया पुत्रकेषु च ।। ५९ ॥ तृतीया मोक्षमार्गस्था साधकानां तु वै सदा । चतुर्थी मुनिशार्दूल ब्रह्मसायुज्यदायिका ॥ ६० ॥ देशिकानां तु कर्तव्या अङ्गनानां तु पञ्चमी । [ संक्षिप्तमध्यमविस्तृतभेदभिन्नासु सामान्यदीक्षासु क्रमात्तस्त्वसंयोजनप्रकारभेदः ] एतासां क्रमशो वक्ष्ये समत्वं तस्वसंग्रहम् ।। ६१ ।। येन विज्ञातमात्रेण दीक्षा सम्यक्प्रवर्तते । संहारक्रमयोगेन मनराशित्रयं च यत् ।। ६२ ।। प्रागुक्तं योजनीयं तत्तृतीये (त्रितयं ? ) बीजसंयुते ( तम् ? ) । तन्मात्र के प्रधाने च ईश्वराख्ये च शुद्धये ॥ ६३ ॥ राशित्रयस्य यो भेदः कथितो नवधा पुरा । अङ्कुशात्सप्तवर्णान्तं तन्मात्रेषु च पञ्चसु ॥ ६४ ॥ अहङ्कारे तथा बुद्धौ प्रकृतौ चेश्वरे च वै । तया संहृतियुक्तया वै गन्धमात्रादितः क्रमात् ।। ६५ ॥ विस्तीर्णायां तृतीयायां यदध्यात्मादिनोदितम् । क्रमः स एव बोद्धव्यः सृष्टिसंहारयोगतः ॥ ६६ ॥ सामान्यत्रितयस्येदं दीक्षायोगस्य लक्षणम् । [ अथ विशेषदीक्षापञ्चकभेदे प्रत्येकं मन्त्रैस्तत्त्वसंयोजनप्रकारभेदः ] पञ्चकस्याधुना विद्धि विशेषाख्यस्य नारद ।। ६७ ।। For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy