________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
त्र्यक्षरं पदभेदेन मूर्तिमन्त्रसमन्वितम् । संक्षिप्ते तत्त्वजाले तु योजनीयं क्रमेण तु ॥ ६८ ॥ तन्मात्राणां च ह्रीं स्वाहा पञ्चानां तु सकृभ्यसेत् । विश्वात्मने पदं यच्च द्वितीयं तदहङ्कृतौ ॥ ६९ ॥ नारायणाय बुद्धौ तु तृतीयं योजने (येत् ? ) स्मरन् । नमः प्रधानतत्वे तु वयक्षरं चेश्वरे ततः ॥ ७० ॥ विशेषपञ्चकस्यैषा प्रथमा परिकीर्तिता ।
For Private and Personal Use Only
[प. १६
द्वितीयं शृणु विपेन्द्र सर्वसिद्धिप्रदा हि या ॥ ७१ ॥ गन्धतन्मात्र पूर्वाणि हृदयाथैरनुक्रमात् ।
अहङ्कारं तु नेत्रेण ( ? ) बुद्धिं जीवेन शोधयेत् ॥ ७२ ॥ प्रधानं मध्यमेनैव देवीनां हृदयेन तु । ईश्वरं प्रणवेनैव कुर्यात्तत्रैव येोजनम् ॥ ७३ ॥ पुत्राणां स्मृता दीक्षा विधिनाऽनेन नारद 1 साधकानां तु वक्ष्यामि तत्त्वशुद्धौ क्रमेण तु ॥ ७४ ॥ संशोध्य गन्धतन्मात्रं वक्रमत्रत्रयेण तु । रसाख्यमङ्गषङ्केन रूपमात्रं च शक्तिभिः ॥ ७५ ॥ समस्तमूलमन्त्रेण शोधयेत्स्पर्श संज्ञितम् । संशोध्य शब्दतन्मात्रमनिरुद्धेन नारद ॥ ७६ ॥ प्रश्नेन त्वहङ्कारं बुद्धिं सङ्कर्षणेन च । प्रधानं वासुदेवेन ततः सत्येन चेश्वरम् ॥ ७७ ॥ शोधयेत्साधकस्यैवं तत्त्वं सद्वैष्णवस्य च । दीक्षार्थी तत्वसंशुद्धौ गुरोर्मन्त्रानो शृणु ॥ ७८ ॥ दशभिस्सामस्तु गन्धमात्रं तु संहरेत् । लोकेशाद्यै रसाख्यं तु रूपाख्यं कौस्तुभादिकैः ॥ ७९ ॥ स्पर्शसंज्ञं त्रिभिर्वत्रैर्हृदाचैः शब्दसंज्ञितम् । लक्ष्म्याचैरप्यहङ्कारं बुद्धिं मूलेन शोधयेत् ॥ ८० ॥ प्रधानमथ सत्याद्यैः पञ्चभिः परिशोध्य च । सप्ताक्षरेण मन्त्रेण शोधयेदीश्वरं ततः ॥ ८१ ॥ क्रम एष हि दीक्षायामाचार्याणा मुदाहृतः । स्त्रीणां तु भोगसिद्धयर्थं शृणु दीक्षाक्रमं मम ॥ ८२ ॥