________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
प. १५]
अग्निकार्यविधानम् मागादौ तु यथामूलं तदप्रैश्छादितं भवेत् । कुर्यात् स्तरसमाप्तिं तु सर्वदाऽऽत्मन उत्तरे ॥ ७७ ॥ स्तरोपर्यथ संस्थाप्य वन्हिकार्योपयोगि यत् ।
[प्रणीतापानेमनुक्नुवाद्युपकरणद्रव्यसादनम् ] प्रणीतापात्रयुग्मं तु तथेध्मयुगलं तु वै ॥ ७८ ॥ सक्नुवद्वितयं चैवमाज्यस्थाली तथैव हि । सर्व संमोक्ष्य मूलेन निघायाथ स्तरोपरि ॥ ७९ ।। प्रणीतापात्रमापूर्य तोयेन तदनन्तरम् ।। तत्रासनवरं ध्यात्वा विष्णुमूलेन विन्यसेत् ॥ ८ ॥ याग(गे ?)यज्ञपति(ते ?)मन्त्रमेवं संस्थाप्य चोत्तरे ।
[परिधिविधानम् ] प्रदद्याच्च ततो विप्र परिधीन्हृदयेन च ॥ ८१ ॥ यज्ञकाष्ठोद्भवान्स्पष्टान्सपर्णान्हस्तसम्मितान् । चतुर्यवपरीणाहानगारे हस्तसम्मिते ॥ ८२ ॥ अन्येषां द्वयङ्गुला वृद्धिः परिधीनां द्विजोत्तम । यावदष्टकरं कुण्डमत ऊर्ध्वं न कारयेत् ॥ ८३ ॥
[ब्रह्मादिलोकपालार्चनम् ] विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने । तत्पृष्ठे पूजयेन्नित्यं लोकपालान्स्वदिस्थितान् ॥ ८४ ॥ ब्रह्ममाहेन्द्ररुद्रादीन्गन्धपुष्पादिभिः शुभैः।
[सुक्नुवयोः संस्कारक्रमः ] सुक्सुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः॥ ८५ ॥ सुवं द्वादशधा शोध्यं वस्त्रेणोष्णेन वारिणा । तथैव द्विजशार्दूल स्रुक्संशोध्या द्विधैव तु ।। ८६ ॥ संक्षाल्यौ सुक्सुवौ ह्येवं शिखामन्त्रेण वै ततः । कुण्डस्थेनामिना ताप्यौ
[ नुक्नुवयोर्लक्षणम्]
तयोर्लक्षणमुच्यते ॥ ८७ ॥ स्ववाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा ।
For Private and Personal Use Only