________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
दैवीमुक्सिद्धये काष्टं विस्ताराच षडगुलम् ॥ ८८ ॥ दैाद्भागद्वयेनाथ दण्डमष्टास्त्रमुच्यते ।। साद्वयलमानं तु कृत्वा शेषं तु शोधयेत् ॥ ८९ ॥ कलशं दण्डमूले तु कुयोत्पद्याननं शुभम् । कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम ॥ ९०॥ त्रिवलिं त्वथवा शङ्ख यथा दण्डस्तदास्यगः। कृत्वाऽग्रस्थं द्विधा भागं समांशेन प्रयत्नतः ॥ ९१ ॥ द्वयङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् । दण्डावस्थस्य भागस्य व्यङ्गलं परितः समम् ॥ ९२ ॥ दत्वा अमं ततः कुर्याभिन्नं खातं सलक्षणम् । तन्मध्ये पङ्कजं कुयोमफुल्लं चोर्वपल्लवम् ॥ १३ ॥ आज्यकोशं तु तं विद्धि सप्तपञ्चपलोपमम् । पामध्ये निममा च कर्णिका वै सकेसरा ॥ ९४ ॥ द्वादशारं बहिश्चक्रं पनस्याष्टदलस्य च । पद्मबाझे तु कर्तव्यं शङ्ख कोणचतुष्टये ॥९५ ॥ ततोऽग्रभागस्य मुने पार्श्वयोरुभयोरपि । एकैकमङ्गलं शोध्यं स विभाज्यस्त्रिया ततः ॥ ९६ ॥ कर्णमेकेन भागेन मध्ये त्वस्यो (त्वंसौ ?) दयेन तु । विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकालेन तु ॥ ९७ ।। विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा । कर्णदेशात्समारभ्य शेषं तु परिशोधयेत् ॥ ९८ ॥ क्रमागतेन सूत्रेण स्थाद्वाराहाननं यथा । ततः पुष्करपत्रात्तु मुखाग्रं यावदेव हि ॥ ९९ ॥ कुर्यादाज्यप्रणालं तु समं न्यूनाङ्गुलं मुने । ईपद्वै क्रमसूक्ष्मं च नाज्यं याति यथा दुतम् ॥१०॥ हस्तमात्रं ततः कुर्यात्सुवं विष मनोरमम् । विस्तारं द्वयङ्गलं काष्ठं वैपुल्याच तदर्धतः ॥ १०१॥ विस्तारमानादग्रेऽस्य वृत्तं कुर्याद्विरङ्गलम् । क्रमातभिन्नखातं च गोळके चैव मुद्रितम् ॥ १०२॥
For Private and Personal Use Only