SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. १५ एकाहुतिपदानेन तत्रस्थो बुध्यते यथा ॥६५॥ तेन मार्गेण जप्तव्यं ध्यात्वा चाज्यामृतं हृदि । [ तस्याग्नेः स्वमन्त्रेण नाभीकुण्डादुत्थापनम् ] ततः स्वमन्त्रेणोत्थाप्यो नाभिकुण्डाडुताशनः ॥ ६६ ॥ [अग्नेर्मन्त्रः ] कृत्वाऽऽदौ प्रणवं विष तदन्ते त्वजितं न्यसेत् । अशेषभुवनाधारमथ उद्येऽस्य योजयेत् ॥ ६७ ॥ उर्ध्वाधोभ्यां च तस्यैव भूधरोजी न्यसेत्ततः। त्रैलोक्यैश्वर्यदं मूर्धि बीजस्यास्य महामते ॥ ६८ ॥ ततः क्रमेण संयोज्य धरेशायं च सप्तकम् । सुपर्णसंज्ञापर्यन्तं सप्तकस्यास्य योजयेत् ॥ ६९ ॥ उवाधोभ्यां च नाळ तु मायाव्योमे तथोपरि । तेजसे पदमादाय ततः सप्तार्चिषे पदम् ॥ ७० ॥ स्वाहासमन्वितश्चामेमन्त्रो धष्टादशाक्षरः। [ स्वमन्त्रेण नाभीकुण्डादुद्बोधितस्य तेजसः पात्रस्थवहौ प्रक्षेपः ] धूधूशब्दशरीरान्तं (?) सच्छब्दालोकबोषितम् ॥ ७१ ॥ विकल्पधूमनिर्मुक्तं सचैतन्यस्फुलिङ्गिनम् । नादान्तेन क्षिपेद्विम सिद्धिमार्गेण पूर्ववत् ॥ ७२ ॥ पुरा हृते च पात्रस्थे वन्ही वन्हि(हिं ?)विशुद्धये । करद्वयेन चादाय भ्राम्य कुण्डे विनिक्षिपेत् ।। ७३ ॥ . [ कुण्डमध्ये प्रक्षिप्तस्याग्नेश्चिन्तनविशेषः ] कुण्डमध्यस्थया चाथ शक्त्या नारायणाख्यया । नासाग्रेण तममिं च घातं ध्यायेत्स्वहृद्दतम् ॥ ७४ ॥ [वढेरुद्बोधनम् ] त्रिपञ्च सप्त वा दद्यात् समिधे हृदयेन च । बढेरुद्धोधनार्थ तु नेत्रमब्रेण नारद ॥ ७५ ॥ [पर्यमिकरणम् ] पर्यनिकरणं कुर्यादृदयेनार्द्रपाणिना । [ परिस्तरणम् ] स्तरं ततोऽस्त्रमन्त्रेण चतुर्दिक्षु त्रिधा त्रिधा ॥ ७६ ॥ . For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy