________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १४-१५
अथ प्रयत्नजनितं शब्दमुत्थाप्य नारद । केवलं तु स्वमन्त्रेण बद्धलक्षस्तु पूर्ववत् ॥ ८५॥ अक्षरादक्षरं 'यातमृतदोषेण वर्जितम् । विलम्बितं च नातीतं तथाऽस्फुटपदोज्झितम् ॥ ८६ ॥ चित्तविक्षेपरहितमत्युत्कृष्टधियाऽन्वितम् । _ [ अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः ] पूर्वान्हे मध्यभागेऽथ अपरान्हे दिनस्य तु ॥ ८७ ॥ क्रमाद्वै सात्विकादीनां वेलात्रयमुदाहृतम् । एवं कृत्वा जपन्विा विनिवेद्य च यागवत ॥ ८८॥ मन्त्रात्मा भगवान्विष्णुरचिरात्सिद्धिदो भवेत् । प्रतिमासं द्विजश्रेष्ठ इष्ट्वाऽयंकुसुमादिभिः ॥ ८९ ॥ [ अक्षसूत्रस्यपुनर्नवीकरण-प्राचीनसूत्रपरित्यागयोर्विधानम् ] सन्धानमुपसंहत्य पूर्व यञ्चाक्षसूत्रकम् । विसर्जनाख्यमत्रेण मुद्रायुक्तेन नारद ॥ ९८ ॥ सूत्रं चाभिनवं कृत्वा माग्वत्संस्कृत्य वेष्टयेत् । यथास्थितं मणीनां च योजनं चाचरेत्पुनः ॥ ९१ ॥ संस्नाप्य विधिवन्मत्री भूयस्तस्मिंस्तु विन्यसेत् । पुरा यदाहृतं चैव सूत्रच्छेदभयात्ततः ।। ९२ ।। पूजां कृत्वा तथा होमं तत्कर्मछिद्रकारणम् । पुराणसूत्रमादाय विभजेत्तन्तुजं च तत् ॥ ९३ ॥ बध्या पाषाणखण्डे च अगाधेऽम्भसि निक्षिपेत् । विष्वक्सेनीयमनण क्षिप्त्वाऽऽचम्य स्मरेदरिम् ॥ ९४ ॥ मूलमत्रण विप्रेन्द्र सप्तवारान्समाहितः । इति श्रीपञ्चरात्रे जयाख्यसंहितायां जपविधानं नाम चतुर्दशः पटलः । [ अथाग्निकार्यविधानं नाम पञ्चदशः पटलः ]
श्रीभगवान् जपं कृत्वा यथाशक्ति जपान्ते पूजयेत्मसुम् । भक्तितश्चार्घ्यपुष्पाभ्यां ततो धृपानुलेपनैः ॥१॥ पश्चात्सन्तर्पयेद्विम अग्निमध्यगतं प्रभुम् ।
I यातं Y.
For Private and Personal Use Only