SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १४ ] जपविधानम् [ मेरोर्लङ्घननिषेधः ] ततः प्रदक्षिणं कुर्यान्मेरुमूर्तिस्थितस्य च ॥ ७२ ॥ निष्कळस्य च मन्त्रस्य तदूर्वेऽवस्थितस्य च । अन्धीरूपस्य च विभोरमलस्य महात्मनः ॥ ७३ ।। पृष्ठेन लड्डनं यस्माद्वर्जनीयं तु नारद । मेरुमूलेऽङ्गुलिपान्तं शिष्टं कृत्वा शनैश्शनैः ॥ ७४ ॥ अङ्गुष्ठस्य अमं कुर्यात्नमेरोलड्डनं भवेत् ।। अङ्गष्टमूलमध्ये च प्रामणीयं च छत्रवत् ॥ ७५ ॥ विधिनाऽनेन जप्तव्यो मन्त्रो ध्यानसमन्वितः। [ शान्तिकपौष्टिकादिनिमित्तभेदेन मन्त्रस्य भिन्नभिन्नरूपतया ध्यानविधानम् ] शांन्तिके स्फाटिकाभं च पीतं ध्यायेच्च पौष्टिके ॥ ७६ ॥ वश्ये किंशुकपुष्पाभमाकृष्टौ नृपशैलवत् । मारणे कजळामं तु विद्वेषे चाषपक्षवत् ॥ ७७ ॥ उच्चाटने च धूम्राभं मन्त्रं ध्यायेजपेत्सदा । [परापरमेदेन जपस्य द्वैविध्यम् ] परापरस्वरूपेण जपस्तु द्विविधः स्मृतः ॥ ७ ॥ परदेहप्रदे(वे?)शे च तत्त्वानां प्रेरणे द्विज ।। क्रूरकर्मणि सिध्यर्थ जपो ज्योतिर्मयस्स्मृतः ॥ ७९ ॥ तत्रान्तीनममलं शब्दं तु परिभावयेत् । भुक्तिमुक्तिपसिध्यर्थ दोषदुःखक्षयङ्करम् ॥ ८॥ शान्तौ तु सर्वकार्याणां सिध्यर्थमविचारतः । सुखसौभाग्यसिध्यर्थं तथाऽप्याधानकर्मणि ॥ ८१॥ जपो भवति शब्दाख्यस्तत्रान्तस्तु विभावयेत् । निशाम्बुकणसङ्काशभकाशात्मजनार्दनम् ॥ ४२ ॥ हृत्पद्यात्तु स्वमन्त्रेणं भावयेच्छब्दमुत्थितम् । नित्योदितं तु तेनैव प्रयत्नहरि (रहि ?) तेन तु ॥ ८३ ।। 'पाणापनपदस्थेन भावनामिश्रितेन च । जप्यमानस्तु वै मन्त्रस्सर्वकामफलमदः ॥ ८४ ॥ 1 पाद Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy