________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १४
[जाप्रदादिभेदनिरूपणम् ] भगवच्छक्तिपर्यन्तं सन्धानं चैकतां स्मरेत् ॥ ५९॥ यदनित्यमिदं विष चित्रवत्परिदृश्यते । बाह्यं विषयजालं च जाग्रदेतदुदाहृतम् ॥ ६०॥ अनित्यप्रतिपत्तियों अस्मिन्नुपरि सर्वदा । भङ्गरे स्वप्नतुल्यो यस्स स्वप्नो जाग्रकारणम् ॥ ६१ ॥ सुषुप्तं शान्ततां विद्धि स्वमवृत्तेः परं तु यत् । शक्तिरूपस्य वै विष्णोः प्राप्तस्तुर्यत्वमेति सः ॥ ६२ ॥ तया सह समत्वं च तुर्यातीतं तदुच्यते । मन्त्रातीतं परं मन्त्रं स्थूलसूक्ष्मद्वयं तथा ॥ ६३ ॥ आत्मानं पञ्चमं विप्र एकत्वेनानुसन्धयेत् । कृत्वैवमनुसन्धान प्रारभेत जपं तथा ॥ ६४ ॥ [अन्तर्रात्पुण्डरीकादिव बहिरक्षसूत्रे मन्त्रस्योदय क्रमभावनम् ] हृत्पुण्डरीकमध्यस्थो भारूपः परमेश्वरः। निर्मलस्फटिकमख्यः प्रस्फुरन्य: स्वतेजसा ॥ ६५ ॥ तस्य शब्दमयीशक्ती(क्तिः ?)ज्वालावनिस्सृतं महत् (ताहिया?)। तद्धर्मधर्मिणी शुद्धा तस्या वै वर्णसन्ततिः ॥ ६६ ॥ निस्सता मन्त्रजननी तदनाचैव मन्त्रराट् । निस्मृतं(तु) यथा पुष्पं लताग्रान्मुनिसत्तम ॥ ६७ ।। एवमेवाक्षसूत्रे तु उदितं च क्रमं स्मरेत् । हृल्लयं तल्लयीकुर्यादृल्लयस्य च तत्तथा ॥ ६८ ॥ एकस्य मन्त्रनाथस्य अन्तर्बाह्योदितस्य च ।
[जपसङ्ख्याविधानम् ] यदैकं तज्जपो विष लक्षसंख्याभिषो भवेत् ॥ ६९ ।। एवं लक्षस्थितो यस्माजपस्तु परिसंख्यते । प्रयत्नादक्षसूत्रेण जपसंख्या तु सा स्मृता ॥ ७० ॥ अनेन क्रमयोगेन विष्णुवत्करणं भवेत् । विष्णुवद्योगमाश्रित्य अक्षमक्षं समाहरेत् ॥ ७१ ॥ सह प्राणोदयेनैव निष्ठाक्षं यावदेव हि ।
For Private and Personal Use Only