________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयाग्निकार्यविधानम्
११३
[ कुण्डपरिकल्पनविधानारम्भः ] देवादुत्तरदिग्भागे कुण्डं कुर्यात्सलक्षणम् ॥२॥ देवागारात्तु वाऽन्यत्र भूमिभागे सलक्षणे । धूमनिगमनोपेतमण्टपे मुसमे शुभे ॥३॥ तत्र कुर्यात्पुरा वेदि चतुरश्रां समन्ततः । सर्वलक्षणसंपन्नां कुर्यात्कुण्डं तदूर्ध्वतः ॥ ४ ॥ चतुरनं समं श्रेष्ठं वर्तुळं वा मनोरमम् । द्विग्विदिक्संस्थितं चैव काम्यानां कर्मणां हितम् ॥५॥ निष्कामो वा सकामो वा मध्यतस्सर्वदिक्षु च ।
[कुण्डानां दिग्भेदेन फलभेदः ] ईशानदिग्गते कुण्डे मन्त्रात्मा तपितो हरिः॥६॥ ददाति सिद्धिं भौलोकीं तत्सिद्धीप्सोमहात्मनः । वियद्गतिपरः कुण्डे जुहुयात्पूर्वदिविस्थते ॥ ७ ॥ रिपूणां निग्रहार्थाय होमेमानेयदिग्गते । होमं दक्षिणदिकुण्डे शान्त्यर्थी ह्याचरेत्सदा ॥ ८॥ उत्सादनार्थमन्येषां कुण्डे नैऋतदिग्गते । अपमृत्युजयार्थी च सर्वोपप्लवशान्तये ॥९॥ होमं वारुणदिकुण्डे मन्त्रस्सन्तर्पितो यदा। (हुत्वा वारुणदिक्कुण्डे मन्त्रं सन्तर्पयेत्सुधीः ?) यदा वायव्यदिकुण्डे मन्त्रस्सन्तर्पितस्तदा ॥१०॥ विविधानि निधानानि प्रयश्छ(च्छ)त्यचिरेण तु । आरोग्य संपदं पुष्टिं प्रददाति च मत्रराट् ॥ ११ ॥ तर्पितस्सौम्यदिकुण्डे नात्र कार्या विचारणा।
[आहुतिसङ्ख्याभेदेन कुण्डानां मानमेदः ] शतार्धसङ्ख्यहोमे च कुण्डं स्याव्दादशाकुलम् ॥ १२ ॥ होमे साष्टशते चैवमुष्टयरनिसमं भवेत । होमे सार्धशते चैव सारनिस्सकनिष्ठिका ॥ १३॥ हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् । लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्ट हस्तकम् ॥ १४ ।।
For Private and Personal Use Only