SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. १३ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्ययागाख्यानम् पूजाकालं विनाऽन्यत्र हितं नास्याः प्रचालनम् ॥ २०८ ॥ नानया तु विना कार्य पूजनं सिद्धिमिच्छता । यस्मात्तस्मात्परं मन्त्रमेतदीयमिदं शृणु ॥ २०९ ॥ [ घण्टामन्त्रनिरूपणम् ] आदाय प्रणवं पूर्वमनन्तेशं ततः परम् । तच्चानलेन संभिन्नमूर्ध्वाधो मुनिसत्तम ।। २१० ॥ त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्पञ्चविन्दुना । दद्यादस्यावसाने तु जगद्धनिपदं ततः ।। २११ ॥ मामात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम् । तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् ॥ २१२ ॥ भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत् । विश्वाप्यायकरान्तस्थं त्रैलोक्यैश्वर्यदं मुने ॥ २१३ ॥ त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् । विन्यासकाले यस्या वै लुतमुच्चारयेत्ततः ।। २१४ ॥ [ घण्टाध्यानप्रकार: ] For Private and Personal Use Only १२३ ध्यानयुक्तं द्विजश्रेष्ठ तद्धयानमवधारय । अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ॥ २१५ ॥ सनाळं च तदूर्ध्वे तु पद्ममष्टदळं तथा । प्रकीर्णपत्र सुसितं (?) केसराळं (ळिं?) सुकर्णिकम् ॥ २१६ ॥ तन्मध्ये चिन्तयेद्देवीं वर्गाष्टक भुजान्विताम् । मुख्यहस्तचतुष्के तु लाञ्छनं कमलादिकम् ॥ २९७ ॥ कमलं च ततः शङ्खं पाशं चैवाङ्कुशं क्रमात् । स्फटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ २१८ ।। अभयं वरदं चैव हस्तद्विद्वितये परे । पद्मासने चोपविष्ठां पद्मपत्रायतेक्षणाम् ॥ २१९ ॥ पद्मगर्भमतीकाशां पद्ममालाविभूषिताम् । विद्याभरणसंछन्नां पीतवस्त्रविवेष्टिताम् ॥ २२० ॥ दर्शयेदेवदेवस्य मुद्रां नारायणात्मनः । [ लक्ष्म्यादिमन्त्राणामभ्यर्चनम् ] लक्ष्म्यादीनां ततो भक्त्या मन्त्राणांच महामुने ॥ २२१ ॥
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy