SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ जयाख्यसंहिता [प. १३ नमः स्वाहासमायुक्तमेकत्रिंशाक्षरं परम् ॥ १९४ ॥ मन्त्रं द्विज समाख्यातं धूपपात्रस्य नारद । मुद्राध्यानसमायुक्तं (क्तां?) सर्वसिद्धिकरं (?) परम् (राम्?) १९५ पूजितां धूपितां लिप्तां मन्त्रविन्यस्तविग्रहाम् । एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना ॥ १९६ ॥ [घण्टाचालनविधानम् ] सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिन्हिताम् । त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबार्हणीम् ॥ १९७ ॥ एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी । वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ १९८ ।। प्रणवान्ते ध्वनिषेष शब्दशक्तौ लयं गतः । वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ १९९ ॥ घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः । परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ २०० ॥ वर्णत्वं समनुमाप्ता तैर्वर्णैर्मुनिसत्तम । मन्त्राणां कल्पनादेहा नानाकाराः सहस्रशः ॥ २०१॥ स्वेच्छया त्वनया शक्त्या सामोत्स्वात्मनस्स्वयम् । अनुग्रहार्थमिह हि भक्तामा भावितात्मनाम् ॥ २०२॥ मननान्मुनिशार्दुल वाणं कुर्वन्ति वै ततः। ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ २०३ ॥ अनभिव्यक्तशद्धास्ते निराकारास्तथैव च । घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः॥२०४॥ अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता । एषा घण्टाभिषा शक्तिर्वागीशी च सरस्वती ॥२०५ ।। वाचि मन्त्राः स्थितास्सर्वे वाच्या मन्त्रे प्रतिष्ठिताः। मन्त्ररूपात्मकं विश्वं स बाह्याभ्यन्तरं ततः ॥२०६ ॥ घण्टाशब्दगतं सर्व तस्मातां चालयेत्पुरा । आवाहनेऽध्ये धूपे च दीपे नैवेद्यजोषणे ॥ २०७ ।। नित्यमेव प्रयुञ्जीत सम्यमन्त्रार्थसिद्धये । । दुःख Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy