________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
१.१३]
१२१ तन्त्रीशब्दात्मना विप्र ततो भासात्मना तु वै । वादात्मना च तदनु आनन्दविभवात्मना ॥ १८१ ॥ तस्मात्सवेपदातीतः सवेत्र विभवात्मना। सचिद्धनोमिनिर्मुक्तशान्तबोधान्तरात्मना ॥ १८२ ॥ एवं पडूमिनिमुक्तं विकल्पातीतगोचरम् । अवगाह्य क्रमेणाथ पुनरेत्य पदात्पदम् ॥ १८३॥ ध्यात्वा मन्त्रं सहस्त्रांशुं सहस्रकरजामृतम् । रेचकेन विनिक्षिप्य देवदेवस्य मूर्धनि ॥ १८४ ॥ ततोऽछिन्नं करे कृत्वा धूपपात्रं तु दक्षिणे ।
[धूपपात्रविधिः ] पद्यचक्राङ्कितं दिव्यमाधारं कारूपिणम् ॥ १८५ ॥ एकनाळं च कर्तव्यं (कुर्वीत ? ) शेषं सप्तफणं विभुम् । बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ॥ १८६॥ चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् । कर्तव्यं (कुर्वीत ?) धूपघारं किङ्किणीजालशोभितम् ॥१८७॥ चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः। चक्रे या या (ये ये?) अराख्या (स्स्यु ?)स्ता नाड्यो वै
द्वादश स्मृताः॥१८८ ॥ किङ्किण्यो याः स्मृता विम ज्ञेयास्ताः सूक्ष्मनाडयः। यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ॥ १८९ ॥ धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता । कालामिहदयोत्या सा सत्यान्ते तु लयं गता ॥ १९०॥ तया संबोषितो बात्मा मन्त्रमूर्तिधरः प्रभुः। सबिषौ भवति, क्षिपमव्युच्छिन्नं दहेत्तथा ।। १९१ ॥
[ धूपपात्रमन्त्रविधानम् ] मत्रेणानेन विपर्षे तन्मन्नमवधारय । ओङ्कारं पूर्वमुत्य परमात्मा ततः पुनः ॥ १९२ ॥ व्योमानन्देन संयुक्तमनन्ताय पदं ततः। कालामिरूपाय पदं जगदूमपदं तथा ॥ १९३ ।। सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च ।
For Private and Personal Use Only