________________
Shri Mahavir Jain Aradhana Kendra
प. १३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् ॥ १५४ ॥ संस्मरेद्गरुडं विप्र गृध्रवक्रं पृथूदरम् । [ पाशाङ्कुशयोर्थ्यानप्रकारः ] नवदूर्वाङ्कुरश्यामं पात्रां पन्नगाननम् ।। १५५ ।। संस्मरेदां कृष्णं दीर्घनासं भयानकम् । स्वमुद्रालङ्कृताः सर्वे द्विभुजाश्चारुकुण्डलाः || १५६ ॥ ध्यातव्याः पुरुषाकाराः स्वप्रभाभिर्विराजिताः । एतल्लाञ्छनमन्त्राणां ध्यानमुक्तं मया मुने ।। १५७ ।। [ सत्यादिपञ्चकध्यानप्रकाराः ] सत्यादीनामथ ध्यानं समासादवधारय । द्विजं संस्मरेत्सत्यं सितमिन्दुशताकृतिम् ।। १५८ ।। वरदाभयहस्तं च ध्यानोन्मीलितलोचनम् । सितकौशेयवसनं मुक्तादामाद्यलङ्गम् ॥ १५९ ॥ सितचन्दन लिप्ताङ्गं सितपुष्प विभूषितम् । ऊर्ध्वस्थं मन्त्रनाथस्य ब्रह्मपु( प ) त्रस्थितं स्मरेत् ॥ १६० ॥ पद्मासनेनोपविष्टं प्रसन्नवदनं द्विज ।
एवं विषं ततो ध्यायेद्वासुदेवं चतुर्भुजम् ।। १६१ ॥ शङ्खपद्मधरं चैव वरदाभयदं विभुम् ।
प्रशान्तहुतभुग्रूपं न सितं नातिचारुणम् || १६२ | ध्यायेत्सङ्कर्षणं देवं प्रशुनं संस्मरेत्चतः । पीतचम्पकवर्णाभं कमलायतलोचनम् ॥ १६३ ॥ शरद्गनसङ्काशमनिरुद्धं स्मरेत्ततः । वासुदेवसमाः सर्वे भुजाभरणलाञ्छनैः ॥ १६४ ॥ उपविष्टास्तथैवेते ब्रह्मरन्धाम्बुजेषु च ।
[ सप्ताक्षरमन्त्रध्यानप्रकारः ] सुशुद्धस्फटिकप्रख्यं नीरूपमिव (मपि ? ) रूपिणम् ॥ १६५ ॥ सर्वाकारधरं चैव सर्वाकारविवर्जितम् ।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ १६६ ॥ प्रसन्नरश्मिजाळेन स्फटिकामरूपिणा ।
1 भूषण Y.
For Private and Personal Use Only
११९