________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
नृसिंहपूर्वमन्त्राणां त्रयाणामधारय ।
[नृसिहामन्त्रध्यानप्रकार: ] पळयाम्बुदनिर्घोषं 'मोद्वमन्तं च पावकम् ॥ १४२ ।। पद्मशङ्खगदाचक्रधर्तारं परमेश्वरम् । द्रवच्चामीकराभासं नानाभरणभूषितम् ॥ १४३ ॥ नानाविलेपनाङ्गं च प्रभूतस्रग्धरं द्विज । रक्तकौशेयवसनं नृसिमं संस्मरेद्विभुम् ॥ १४४ ॥
[कपिलमन्त्रध्यानप्रकारः] उदयादित्यसङ्काशं पिङ्गलश्मश्रुलोचनम् । चतुर्भुजमुदाराङ्गं पद्माधैरुपशोभितम् ॥ १४५ ॥ सितवस्त्रोत्तरीयं च मुक्ताभरणभूषितम्। सितमाल्यधरं ध्यायेत्कापिलं मन्त्रनायकम् ॥ १४६ ॥
[ वाराहध्यानप्रकारः ] राजाश्मराशिवर्णाभं पीताभरणभूषितम् । महाद्युतिधरं ध्यायेच्चतुहेस्तं च नारद ॥ १४७॥ माग्वल्लाञ्छनसङ्घन कमलायेन मण्डितम् । वराहमन्त्रनाथं च मधुपिङ्गळलोचनम् ॥१४८॥ चलविद्युम॒वं रौद्रं ज्वालाश्मनुसट स्मरेत् ।। बालचन्द्राग्रतुल्येन युक्तं दंष्ट्राद्वयेन तु ॥ १४९ ॥ पद्मासनोपविष्टाश्च चिन्तयन्तः स्वकारणम् । सम्मुखाः 'कर्णिकाधास्थाः स्मर्तव्याः सर्वदा मुने ॥ १५० ॥
[कौस्तुमादिध्यानप्रकारः] कौस्तुभं द्विभुजं ध्यायेत्सहस्रार्कसमप्रभम् । नानावणेधरां देवीं वनमालां तथैव च ॥ १५१ ॥ कान्तां कमलपत्राक्षी प्रौढस्त्रीसदृशीं द्विज । पुण्डरीकमभं पद्मं शङ्ख कुन्देन्दुसन्निभम् ॥ १५२ ॥ राजोपलमभं चक्रं हेमामां संस्मरेद्गदाम् । द्विरष्टवर्षवत्कान्तां कुमारी नवयौवनाम् ॥ १५३ ।।
[गरुडध्यानप्रकारः] रक्ततुण्डं महापाणं भीमभुकुटिलोचनम् । 1बहY.2 वाराहं A. 3 जेटं Y 4. कास्तस्य Y.
For Private and Personal Use Only