________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाख्यानम्
[ शिरोमन्त्रध्यान प्रकार:] बन्धुजीवोपमं रक्तं पद्मचक्रोद्यतंद्विज । स्वमुद्रासंयुतं ध्यायेत्पाणिना वरदेन च ॥ १३० ॥ कुङ्कमेन विलिप्ताङ्गं रक्तभासं मनोहरम् । रक्ताभरणसंयुक्तं रक्तपुष्पविभूषितम् ॥ १३१ ॥ सम्मुखं मत्रनाथस्य शिरोमन्त्रं च संस्मरेत् ।
[शिखामन्त्रध्यानप्रकारः] चलाळिपटलाभं तु पद्मकौमोदकीधरम् ॥ १३२ ॥ आत्मीयमुद्रां धर्तारं युक्तं चाभयपाणिना। युक्तं मृगमदेनैव पुष्पाधैरसितैश्च तम् ॥ १३३ ॥ ईषत्स्मिताननं ध्यायेच्छिखामन्त्रं च नारद ।
[कवचमन्त्रध्यानप्रकारः] मधुपिङ्गळवर्णाभं शङ्खचक्रधरं तथा ॥ १३४ ॥ स्वमुद्राव्यग्रितं ध्यायेत्पाणियुग्मयुतो(तं) परम् । मित्रैर्विलेपनलिप्तं मित्रैः पुष्पादिभिस्तथा ॥ १३५ ॥ निरीक्ष्य(क्ष?)माणं च विभोः कवचं संस्मरेविज ।
[नेत्रमन्त्रध्यानप्रकारः] रक्तपीतप्रभं चैव गदापोयतं क्रमात् ॥ १३६ ॥ दक्षिणापरहस्ताभ्यां युक्तं चैव स्वमुद्रया । सकाश्मीरेण लिप्ताङ्गं चन्दनेन सितेन च ॥१३७ ॥ पुष्पाभरणवासोभिः पीतैर्मण्डितविग्रहम् । संस्मरेन्नेत्रमनं तु सुनेत्रं च स्मिताननम् ।। १३८ ॥
[अस्त्रमन्त्रध्यानप्रकार:] राजोपलद्युतिमुषं गदाचक्रोद्यतं महत् । युक्तं चैव स्वमुद्राभ्यां सुवर्णसदृशैः शुभैः ।। १३९ ॥ युक्तमाभरणाद्यैश्च पळयानलविक्रमम् । अस्त्रमनं विभोर्ध्यायेत्सम्मुखं स्वामिनः सदा ॥ १४० ॥ एकवक्त्राः स्मृताः सर्वे सर्वे च गरुडासनाः ।
इतीदमुक्तमङ्गानां ध्यानं पापहरं शुभम् ॥ १४१ ॥ I ननाः Y.
For Private and Personal Use Only