________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[ १. १३
आधारशक्तेरारभ्यअनुसन्धानपूर्वकम् ॥ ९० ॥ युगासानं प्राक् दत्वा स्थूलं मन्त्रासनासनम् | तत्रोर्ध्वे मध्यदेशेऽपि प्रागुक्तविधिना न्यसेत् ॥ ९१ ॥ द्विरष्टकं तु धर्मार्थ कान्तिमत्पररूपधृत् । तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ॥ ९२ ॥ सूक्ष्मरूपधरं विम प्राक्पदादीशगोचरम् । पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः ॥ ९३ ॥ तदेव गर्भदेशस्थं ह्यनुसन्धाय विन्यसेत् । भावासनावसानान्तं (नं तत् ?) मन्त्रैः स्वैस्स्वैरथार्चयेत् ॥ ९४ ॥ उपर्युपरि योगेन पुष्पधूपानुलेपनैः ।
[ चतुरस्रायतमण्डलकल्पनम् ] युगावसाने पीठस्य पृष्ठे विधिसमीपतः ॥ ९५ ॥ कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः ।
मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि ॥ ९६ ॥ वायव्य कोणादारभ्य यावदीशानगोचरम् । [ गणेशादिपूजनम् ]
तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेद्विजः ॥ ९७ ॥ ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत् । पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितत् ॥ ९८ ॥ परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत् । आदिसिडसमूहं च भगवद्धानतत्परम् ॥ ९९ ॥ अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ।
[ हृदयकमलाद्भगवत आवाहन पूजनप्रकार: ] गृहीत्वा शिरसा तां च तत आवाश्येत्प्रभुम् ॥ १०० ॥ आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः । मोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् ॥ १०१ ॥ अवतार्य क्रमेणैव रेचकेन शनैरशनैः । नाडीभ्यां सन्धिदेशेन नीरूपेणामकेन च ॥ १०२ ॥ कल्पनारहितेनैव चिद्भावाभासितेन च । सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः ॥ १०३ ॥
For Private and Personal Use Only