SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११३ प. १३] बाह्ययागाख्यानम् भूमिष्ठं क्षेत्रपालं च पूजयेत्तदनन्तरम् । द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे ॥ ७८ ॥ दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डको । तद्वजयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ ७९ ॥ शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात् । गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ॥ ८० ॥ तेनैव क्रमयोगेन द्वारस्याभ्यन्तरस्थितौ । निधीशौ शङ्खपद्माख्यावयपुष्पादिभिर्यजेत् ॥ ८१ ॥ [यागमंदिरप्रवेशविधिः] कृत्वैव द्वारयागं तु ततः पुष्पं च सम्मुखम् । गृहीत्वाऽङ्गुष्ठपूर्वेण अङ्गुलीत्रितयेन तु ॥ ८२ ॥ अभिमन्व्य तदस्त्रेण चक्रं तदुपरि स्मरेत् । निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ॥ ८३ ॥ क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे । दक्षिणां तर्जनी विष कुर्यादूर्ध्वमुखीं ततः ॥ ८४ ॥ शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् । स्मृत्वा प्रामयमाणस्तां संविशेधागमन्दिरम् ॥ ८५ ॥ [उपवेशनशेषभूतमासनप्रोक्षणादि ] स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च । सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ॥ ८६ ॥ आधारशक्तिपूर्व तु मन्त्रसङ्घ प्रपूजयेत् । उपविश्य ततः पश्चात् [ पूजनाङ्गभूतावेक्षणप्रोक्षणविशेषौ ] हृदयस्थं च तत्परम् ॥ ८७ ॥ तेजो नारायणाख्यं तु तत्कुर्यानेत्रमध्यगम् । वासुदेवाभिधानं तु मागुक्तं च समाश्रयेत् ॥ ८८ ॥ निरीक्ष्य सकलं सम्यक्स्तब्धनेत्रयुगेन च । मण्डलवाय॑पात्रं तु पुनः प्रोक्ष्य कुशाम्भसा ॥ ८९ ।। [आधारशक्त्याद्यासनकल्पनतत्पूजनक्रमः] पूजनं भारभेत्पश्चात्साध्यः पुष्पैः क्रमेण तु । १५ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy