________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
जयाख्यसंहिता
[प. १३
पीतेन पीठकोणादि गात्रकाण्यरुणेन तु । सितं द्वारचतुष्कं तु कोणाव्रक्तेन भूषयेत् ॥ ३९ ॥ बाह्ये रेखात्रयं दद्याद्रक्तपीतासितान्तिमम् । अन्तःशक्तिगतेनैव स्वरषोडशकेन च ॥ ४० ॥
[मण्डले प्रकारभेदा: फलभेदाश्च ] अथवा द्वादशारं तु द्वादशस्वरभावितम् । अष्टारं विलिखेन्नित्यं नाभिनेमिसमन्वितम् ॥ ४१॥ वर्गाष्टकेन वै व्यामा अरा ऋग्वस्सुशोभनाः । चक्रनाभौ लिखेत्पद्मं पूर्वलक्षणलक्षितम् ॥ ४२ ॥ शङ्खोदरेऽथवा लेख्यं पङ्कजं सुमनोहरम् । कौमोदक्यां पुरो वाऽपि बिम्बे वा कौस्तभोपमे ॥ ४३ ॥ पुष्पमालाकृती वाऽथ यथाकामाप्तये मुने । स्वलांछनाकृतौ यागे ददात्यभिमतं विदुः ॥ ४४ ॥ नवनाभौ परां सिद्धिमैहिकामुष्मिकी लभेत् । पद्मोदरे कृते यागे सदा लक्ष्मीः प्रवर्धते ॥ ४५ ॥ चक्रमध्ये भवेद्राज्यं शत्रुपक्षक्षयङ्करम् । शान्तिकर्मणि वै शङ्ख गदायां सुभगो भवेत् ॥ ४६ ॥ कौस्तुभे राज्यलाभस्तु पुष्टि पुष्पमण्डले ।
एष पद्मोदरो यागः पद्यादेमध्यगः स्मृतः ॥ ४७ ॥ [ मण्डलस्येव कुम्भ पुष्पमण्डल स्थण्डिल प्रतिमादीनामपि बाह्ययाग
प्रदेशत्वविधानम् ] नानावर्णकसंयुक्तस्त्वन्यः कुम्भोदरे श्रुणु । सौवर्ण राजतं तानं मृण्मयं वा घर्ट दृढम् ॥ ४८ ॥ काळमूलैस्तु रहितं त्रासमाणविवर्जितम् । (?) क्षीरपूर्ण तु तं कुर्यादा वा गन्धवारिणा ॥ ४९ ॥ सर्वरत्नौषधीगाढं कुशदूर्वाफलोदरम् । सिद्धार्थकाक्षतोपेतं कुमोदकभावितम् ॥ ५० ॥ प्रशस्ततरुशाखाभिः कोमलाभिरलङ्कतम् । शङ्खस्वस्तिकपद्यैश्च चर्चितं चन्दनेन च ॥५१॥
For Private and Personal Use Only