________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाख्यानम्
शोभितं च सितैर्वस्त्रैः पट्टैश्चैव स्रगादिभिः । तन्मध्ये चासनं पद्मं तन्मध्ये तु जनार्दनः ॥ ५२ ॥ वैनतेयोपरिस्थस्तु लक्ष्माद्याः पूर्ववत्स्थिताः । संक्षेपपूजनार्थ तु कुम्भे यामः प्रकीर्तितः ।। ५३ ।। उपलिप्य स्थलं वाथ गोमयेन मृदाम्भसा । वर्तुळं परीयात्तत्र दद्याद्वा चतुरश्रकम् ॥ ५४॥ यथा कालोद्भवैः पूष्पैः पवित्रैः "कटमुक्तये । तत्र संपूजयेद्देवमथवा मुनिसत्तम ॥ ५५ ॥ अहतं मुसितं वस्त्रं धूपगन्धादिवासितम् । पृष्ठतस्तु स्थले दत्वा तत्रोपरि यजेद्धरिम् ॥ ५६ ॥ प्रतिमां कारयेद्वाऽथ घातुमृच्छैलदारुजाम् । सपनं केवलं वाऽथ भद्रपीठं प्रकल्पयेत् ॥ ५७ ॥ केवले तोयमध्ये वा दीप्तेऽनौ धूमवर्जिते । स्थितमायतने वाऽथ साकारं परमेश्वरम् ॥ ५८॥ शङ्खचक्रधरं विष्णुं मुरसिद्धावधारितम् । ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् ॥ ५९ ॥ तन्मृत्तौ च स्वमत्रेण यजेदावाहनं विना । भूमिष्ठे खचले विप्र पाषाणे चक्रलांच्छिते ॥ ६॥ चले वा शङ्खपद्याख्यमुद्राभिर्विष मुद्रित । तत्रोपरि यथापूर्व तथा संपूजयेत्मभुम् ॥ ६१ ॥ एभिर्यागपरैर्मध्यादेकं निष्पाद्य यत्नतः । कर्मणा भक्तियुक्तेन पूजयेत्सर्वकामदम् ॥ ६२ ॥ यथाशक्त्युपचारेण विभवेन तु वा मुने ।
[अथ मण्डले बाह्ययागप्रकारः] अर्घ्यपात्रं समादाय सुवर्णरजतादिनम् ॥ ६३ ॥ शैलं मृदारुजं वाऽथ पलाशांबुजपर्णजम् । अस्त्रोदकेन प्रक्षाल्य लेपयेत्कुडमादिभिः ॥ ६४ ॥ अनेकाङ्गं च तत्राय॑ योजयेदस्त्रसंस्कृतम् ।
1 कूट
A.
For Private and Personal Use Only