________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२-१३]
बाह्ययागाख्यानम्
नाशिष्याणां च वक्तव्यं नाभक्तानां कदाचन । अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ॥ १३६ ॥ इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मानसयागो नाम द्वादशः पटलः । अथ बाह्ययागाख्यानं नाम त्रयोदशः पटलः ।
श्रीभगवान् पुराऽनेन विधानेन कृत्वा यागं तु मानसम् । कमेणा भक्तियुक्तेन मण्डलस्थं यजेत्ततः ॥१॥ हृत्पुण्डरीकमध्ये य इष्टो मन्त्रगणः पुरा । प्रस्फुरन्तं तमत्रैव प्राणापानगतं स्मरेत् ॥ २ ॥ विसर्जयेन तं यावन कृता बाबतः क्रियाः। न्यसनीयो ह्ययं यस्मादयंपा। द्विजोत्तम ।। ३॥ मण्डले ह्यक्षसूत्रे च कुण्डमध्यगतेऽनले ।। [प्रश्नप्रतिवचनमुखेन बाह्ययागस्यावश्यकत्वनिरूपणम् ]
नारदः] भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ॥ ४ ॥ ज्ञानविज्ञानसहितो हृद्यागस्सर्वसिद्धिदः किमर्थ बाह्यतः पूजा कार्या वै मण्डलान्तरे ॥ ५ ॥ एतदाचक्ष्व भगवंस्तत्र मे संशयो महान् ।
श्रीभगवान्बाह्योत्था बासना विष बहुजन्मार्जिता दृढा ॥ ६ ॥ लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया। या मनविषया शुद्धा क्रिया शान्तस्वरूपदा ॥ ७॥ समुत्थानविनाशार्थमस्यास्सा संप्रकीर्तिता । स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् ॥ ८॥ दृढोत्थवासनानां च तानवं स्याच्छनैश्शनैः । यन्मयस्साधको विष देहस्थस्सांपतो भवेत् ॥९॥ तन्मयो देहपातात्स्यादित्येतत्कथितं मया ।
नारदःअहि मे देवदेवेश मण्डले यजनं यथा ॥ १०॥ 1 तेन S. 2 सौ C. L.
For Private and Personal Use Only