________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ प. १२ स्वकारणानौ नाभिस्थे य ऊर्बेन्धनवस्थितः। स्वभावदीप्तब्रह्मानौ परितचोदरोज्वलम् ॥ १२१ ॥ स्मृत्वा मन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् । चिन्तयेदमृतत्वाज्यं पुरा यच्चाहृतं द्विज ॥ १२२॥ चिदग्निमेव सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् । ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ १२३ ॥ प्रोच्चारयंश्च मवेशं प्लुतं ध्यानसमन्वितम् । कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ १२४ ॥ विष्णोमन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च । । सर्व तु सन्यसेत्पश्चात्तस्मिन्मन्त्रकृतं च यत् ॥ १२५ ॥ तोयपुष्पाक्षतैः पूर्ण भावयेद्दक्षिणं फरम् । तन्मध्ये निष्कळं मन्त्रं संस्मरेत्किरणाकुलम् ॥ १२६ ॥ यागोत्यां फलसंपत्तिं लक्ष्मीरुपां विचिन्त्य च । मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ १२७ ॥ भूयश्च निष्कळं मन्त्रं तस्यामुपरि भावयेत् ।। सशीर्षे जानुनी भूमौ कृत्वा विष्णोनिवेदयेत् ॥ १२८ ।। प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् । भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ।। १२९ ।। अयं यो मानसो यागो जराव्याधिभयापहः । पापोपसर्गशमनो भवाभावको द्विज ॥ १३०॥ सतताभ्यासयोगेन देहपातात्पमोचयेत् । यस्त्वेवं परया भक्त्या सकृदाचरते नरः ॥ १३१ ॥ क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने । याजकानां च सर्वेषां प्रधानत्वेन वर्तते ॥ १३२ ॥ तारयेत्स्वपितॄन्यातानेष्यांश्चैव तु सांपतात् । किं पुनर्नित्ययुक्तो यस्तगावगतमानसः ॥ १३३ ॥ मन्त्राराधनमार्गस्थश्रद्धाभक्तिसमन्वितः। न तस्य पुनरावृत्तिस्स याति परमं पदम् ॥ १३४ ॥ ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् । इदं रहस्यं परमं मयोक्तं तेऽध नारद ॥ १३५ ॥
For Private and Personal Use Only