________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यानं
स्वभावनिष्कळान्मन्त्रात्तद्वदूरे च सिद्धयः । अत एव क्रमाद्धयातैः पूजितैस्तोषितैस्ततः ॥ १०७ ॥
[विशेषपूजनम् ] विशेषपूजनं विप कल्पयेदच्युतस्य तु । सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥१०८ ॥ मूलमन्त्रं समुच्चार्य प्रयत्नात्पूरकादिभिः । दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ।। १०९॥ स्फुरद्रश्मिचयाकीर्णमन्यन्दुशतप्रभम् । ध्यात्वा नारायणं देवमञ्चलौ सनिरोधयेत् ॥ ११० ॥ तमञ्जलिं क्षिपेन्मूर्धि तस्मिन्वै मन्त्रविग्रहे । अर्घ्य निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १११॥ मुद्रा सन्दश्य मूलाख्यां मानसं जपमारभेत् । संख्याहीनं यथाशक्ति घण्ठाख्यकरणेन च ॥ ११२ ॥ भोगस्थानगतानां च लक्ष्यादीनां क्रमेण च । मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् ॥ ११३॥ स्त्रोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक्प्रसादयेत् । एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ॥ ११४ ॥
[अथ मानस होमप्रकार:] होमं तथाविधं कुर्यान्मोक्षलक्ष्मीपदं शुभम् ।। नाभिचक्रान्तरस्थं तु ध्यायेद्वन्हिय(गृ?)हं मुने ॥ ११५ ॥ त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि । ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ ११६ ॥ सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिखं द्विज । वासुदेवात्मकं यस्मात्स वसत्यन्तरात्मसु ॥ ११७ ॥ प्रोचरेन्मूलमन्त्रं तु यावच्छदस्य गोचरम् । तत्रस्थमाइरेदिव्यमाहादाज्यामृतं परम् ॥ ११८ ॥ ब्रह्मसर्पिःसमुद्रायनिस्तरङ्गासरिसुतम् । गृहीत्वाऽमृतमार्गेण ब्रह्मरन्ध्रेण संविशेत् ॥ ११९ ॥ हृदयान्मध्यमार्गेण चिन्मयेन सदीप्तिना । पोल्लसन्तं स्मरेन्मन्त्रं ब्रह्मशक्त्युपबृंहितम् ॥ १२० ॥
१४
For Private and Personal Use Only