________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ प. १२ सौम्माप्यदक्षिणे पूर्व कर्णिकासंस्थितस्य च ॥ ९२॥ तदीशपत्रादारभ्य दलाग्रेषु चतुर्वपि । सत्यमन्त्रं तु विन्यस्य यावद्वायुदळावधि ॥ ९३ ॥ ब्रह्मरन्ध्राद्विनिष्क्रान्ते मूलमन्त्रस्य नारद । प्रभानाळे निराधारे प्रचरद्रश्मिपल्लवे ॥ ९४ ॥ आनन्दकेसराकीर्णे महानन्दाख्यकर्णिके । न्यसेत्सप्ताक्षरं मन्त्रं निष्कळं तु च केवलम् ॥ ९५ ॥ यदै तद्भावभावित्वमेतावत्तस्य पूजनम् ।। सङ्कल्पजनितैर्भोगैर्विकल्पपदवर्तिभिः ॥ ९६ ॥ कथं स्यात्पूजनं तस्य यतस्तेभ्यः स्थितः परे । न्यस्यैवं मन्त्रसङ्घ तु पूर्ववत्पूजयेत्क्रमात् ॥ ९७ ॥ ध्यात्वैकैकं स्वमन्त्रेण तयानमवधारय । भोगस्थाने च मन्त्राणां यत्सदा संप्रयोजयेत् ॥ ९८ ॥ यत्पूर्व कथितं रूपं मन्त्राणां निष्कळं मया। सकळेन बहिस्थेन छुरितं भावयेत्ततः ॥ ९९ ॥ निर्मलं स्फटिकं यद्वदुपरागेण केनचित् । स्फटिकं चोपरागस्य नान्तरं संविशेद्यथा ॥ १० ॥ उपरागस्त्वनिच्छातस्संविशेत्स्फटिकान्तरम् । एवं हि सकळं रूपं निष्कळेन 'सह स्मरेत् ॥ १०१॥ भोगस्थानगतस्यैव विद्धि तच्चोभयात्मकम् । अधिकारपदस्थस्य मन्त्रस्य मुनिसत्तम ॥ १०२ ॥ सकळं योजयेद्यानं तस्य हप्तामध्यगम् । निराधारस्थितं ध्यायेत्तद्रूपं निष्कळं तु तत् ॥१०३ ॥ भिन्नात्मभ्यां ततस्ताभ्यामेकत्वेन स्थितिं पुरा । इति चेतसि वै कृत्वा ततस्संपूजयेद्विज ॥१०४ ॥ पादपश्च यथा भौमैगुणैदूरतरे स्थितः । पादपीगुणैस्तद्वदूरे तिष्ठति मेदिनी ॥ १०५ ।। सकलाकलमन्त्राभ्यामविनाभाव ईदृशः । केवलात्सकलाद्ध्यानात्पदसिद्धिने जायते ॥ १०६॥
I बहिः Y
For Private and Personal Use Only