________________
Shri Mahavir Jain Aradhana Kendra
प. १२ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानसया गाख्यानं
सत्याद्या मूर्तयश्चैव देहे देवस्य भाविताः ॥ ७७ ॥ व्यापय्य च तथात्वेन स्वे स्वे स्थाने तथात्मकाः । तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु ॥ ७८ ॥ परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः । लघयागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः ॥ ७९ ॥ तस्माद्धृत्कर्णिकाधारे मूर्ती वा यत्र कुत्रचित् । मूलमन्त्रशरीरस्थं परिवारं यजेत्सदा ॥ ८० ॥ यांग एष लयाख्यस्तु संक्षिप्तस्सर्वसिद्धिदः । मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ ८१ ॥ साकाराः केवलास्सर्वे यत्र भोगाभिधस्स तु । केवलेन च यागेन पृथग्भूतेन नारद || ८२ ॥ पूजनं कमलादीनामधिकाराभिधस्स तु । सांप्रतं सर्वमन्त्राणां भोगयागार्थमेव च ॥ ८३ ॥ हृत्पद्ये तु विभागेन विन्यासमवधारय । पूर्वभागे विभोर्लक्ष्मी केसरस्थां च विन्यसेत् ॥ ८४ ॥ कीर्ति दक्षिणतस्तस्य पृष्टतस्तु जयां हरेः । तस्यैव चोत्तरे भागे मायां केसरगां न्यसेत् ॥ ८५ ॥ विदुक्ष्वङ्गानि विन्यस्य केसरेषूपरि द्विज । पूर्वयाम्यान्तरे विष्णोर्द्वन्मन्त्रं विनिवेश्य च ॥ ८६ ॥ शिरः पूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे । पश्चिमोत्तर दिमध्ये कवचं विन्यसेद्विभोः ॥ ८७ ॥ अग्रतः केसरोदेशे नेत्रं दिवस्त्रमेव च । दक्षिण मन्त्रनाथस्य पद्मपत्रे नृकेसरी ॥ ८८ ॥ कपिलः पश्चिमेन्यस्यो वराहवोत्तरे दळे ।" कौस्तुभं वनमालां च विभोः पूर्वदळान्तरे ॥ ८९ ॥ नृसिझकोडमन्त्राभ्यां समीपे तद्दलद्वये ।
पद्मशङ्खौ तु विन्यस्य गदाचक्रे तथैव च ॥ ९० ॥ समीपे रत्नमालां च गरुडं नातिदूरतः । पाशं च तत्समीपेतु गदाया निकटेऽङ्कुशम् ॥ ९१ ॥ अनिरुद्धाद्युपाङ्गानि पत्राग्रेषु तु विन्यसेत् ।
For Private and Personal Use Only
१०३