________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ܘ ܘ ܕ
जयाख्यसंहिता
प. १२] पृथग्रूपं तथैक्यं च आभ्यामुक्तं पुरा मया । [ हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यज्योतिषो विष्णोः प्रभावविशेषः ]
एवं प्रकीर्तितं सङ्घ मनचक्र परात्मकम् ॥ ३७॥ हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् । कदम्बगोळकाकारं विश्वरूपं मणिप्रभम् ॥ ३८ ॥ रत्नदीपसमाकारमच्छिन्नमसरं महत् । श्रोत्रपूर्वैः खरन्धैश्च रश्मयस्तस्य निर्गताः ॥ ३९ ॥ छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्धिन । याति भासां गणो बाह्ये शरीरादेवमेव हि ॥४०॥ मन्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेबहिः । [स्थैर्यादीनां पृथिव्यादिगुणानामपि परमात्मैकाश्रयत्वम् ] अप्रत्यक्षस्सदाऽक्षाणां मन्त्रात्माऽयमपि द्विज ॥ ४१ ॥ तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलक्ष्यते । बहिस्थितं यद्भूतानां मादीनां गुणपञ्चकम् ॥ ४२ ॥ तेन तचापलब्धव्यं प्रत्यक्षेण परोक्षगम् । तस्य भौमो गुणस्थैर्य तद्गुणेन हि सा स्थिरा ॥ ४३ ॥ परस्परानुभावेन संवृत्तौ तदुपारुहेत् । आलादो यस्तदीयोऽपि सतोये चोपलभ्यते ॥ ४४ ॥ तोये गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने । स्मृतमात्रेण मन्त्रेण आहादो मानसो महान् ॥ ४५ ॥ रूपात्मना परिणतस्सचानौ पारमेश्वरः। यो रूपाख्यो गुणश्चानेस्समन्त्रात्मनि तिष्ठति ॥ ४६ ॥ तेजो विना यतो ध्यानं कुत्रचिनोपलभ्यते । स्पर्शधर्मो हि यो वायोस्स तदीयो महामते ॥ ४७॥ यो वायव्यो गुणस्सूक्ष्मस्स च मत्रतनौ स्थितः । स चान्तःकरणे चैव संहृते स्यात्तदुत्थितः ॥ ४८ ॥ यदाकाशस्य शून्यत्वमस्ति. तस्मात्तदुद्भवः । स मन्त्रात्मनि संविष्टो गुणो ह्यस्मिन्महामते ॥ ४९ ॥ 1 प्रव CL. 2 सर्व A. 3 म्य CL. 4 मान्ने CL.
For Private and Personal Use Only