________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यान
सूक्ष्मं चिच्छक्तिलक्षं तु लिङ्गमानं प्रकाशवत् ।
[स्थूलस्वरूपस्य स्मरणम् ] ततः स्थूलवपुर्येयो नानारूपविभागशः ॥ २४ ॥
[परसूक्ष्मात्मनाऽवस्थितस्य मन्त्रमूर्तेविष्णोरैश्वर्यम् ] वालाग्रशतभागश्च प्रधानपुरुषेश्वरः । गुणभोक्ता गुणाधारो गुणवानिर्गुणस्तथा ॥ २५ ॥ देहेश्वरस्सविख्यातस्सर्वदेवमयः प्रभुः । अङ्गुष्ठमात्रः पुरुषस्सर्वदेहेषु तिष्ठति ॥ २६ ॥ मणिर्यथा विभागेन नीलपीतादिभिर्युतः । रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ २७ ॥ ब्रह्माह्ययं तथा रुद्रश्चन्द्रसूयौं प्रजापतिः । परमात्मसमुद्भूतमन्त्राजातास्तदात्मकाः ॥ २८ ॥
[लक्ष्म्यादिभिः सहैवपूज्यत्वम् ] बुद्धिस्सन्तारिका या वै परे तद्धर्मेधर्मिणी। तत्ज्ञा वा (सा? )माविभागेन प्रभा चन्द्रमसो यथा॥२९ ।। अवस्थिता चतुर्धा वै शक्तित्वेन जगद्गुरोः । ज्ञानक्रियास्वरूपेण इशित्वानुग्रहात्मना ॥ ३० ॥ पञ्चैव बुद्धिपूर्वास्ताः प्रागुक्तासु च शक्तिषु ।। विकारत्वेन वर्तन्ते आसामपि च नारद ॥ ३१॥ बुद्धिं विना चतसृणां विकृतिश्चापि नश्वरी । व्यवस्थिताश्चतुर्धा या लक्ष्म्यांद्या देवतास्तु ताः ॥ ३२ ॥
ताभिस्सह सदा पूज्यस्साङ्गो हृत्पद्मकोटरे।। [ परमात्मनः शक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानादिविकृत्यष्टकमूलप्रकृतित्वम् ]
एतासां हि विकारश्च श्रेयोमार्गनियामकाः ॥ ३३ ॥ सदैव मत्मपन्नानां जनानां येऽनुरागिणः। संस्थिताश्च जगत्यस्मिन् धर्मज्ञानादयस्तु ते ॥ ३४ ॥ एतेषां वै द्विजश्रेष्ठ विकारत्वेन संस्थितम् । अधर्माचं चतुष्कं तु अश्रेयः पथयोजकम् ॥ ३५॥ गुर्वनिमन्त्रशास्त्राणां दूषकादिषु जन्तुषु । शेष मायामयं सर्व तां मायां विद्धि मामकीम् ॥ ३६ ॥
For Private and Personal Use Only