________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
जयाख्यसंहिता
[प. १२
पीठमञ्जलिना द्वाभ्यां प्रणमन्ति जगत्मभुम् । [धर्मादिपीठस्योपरि अवयवविभागशः स्थानभेदेन सितकमलसूर्येन्द्वग्निपक्षिराजान्ता
सनपञ्चकस्योपर्युपरि परिकल्पनप्रकारः ] एषामुपरि विन्यस्य सितपद्मादितस्त्रयम् ॥ १३ ॥ मागुक्तैस्स्वोदितैमन्त्रैरुपर्युपरि नारद । तत्पृष्ठे पक्षिराजं च वराहं तूभयं न्यसेत् ॥ १४ ॥ आनाभि हृदयान्तं च पञ्चधा सुसमैः पदैः।
विकल्प्य भावयेद्वयाप्तिमस्य मन्त्रासनस्य च ॥ १५ ॥ [आधारशक्तिप्रभृति पक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां
तत्त्वानां क्रमाद्व्याप्तिः] आधारशक्तेरारभ्य यावन्मान्त्रं परं पदम् । भूतान्याधाराशक्तौ तु तन्मात्राः कालपावके ॥ १६ ॥ वागादिकं तथैवाक्षमनन्तं व्याप्य संस्थितम् ।। श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ।। १७ ॥ अनन्तदळपटे तु अहङ्कारस्समाश्रितः । द्विरष्टकं च धर्माद्यमधिष्ठाय च धीस्थिता ॥ १८ ॥ तर्ध्वपमें प्रकृतिर्गुणसाम्याऽविभागिनी। धामत्रयाश्रितः कालो भावाख्ये पुरुषः स्थितः ॥ १९ ॥ गरुडश्चेश्वरेणैव प्रभुत्वेन त्वधिष्ठितः।। एकादशपदं ह्येवं मन्त्रमूतौँ जनार्दने ॥ २० ॥ आसीनं च शरीरस्थमविभक्तं विभक्तिमत् ।।
[विष्णोर्ध्यानोपक्रमः ] विष्णुं विश्वात्मकं देवमीश्वराधारविग्रहम् ॥ २१॥ स्वस्थानाच समायान्तं प्राक्मवाहेण भावयेत् ।
[प्रथमं मन्त्रात्परतरस्वरूपस्य भावनम् ] मरीचिचक्रपर्यन्तं मन्त्रात्परतरस्थितिम् ॥ २२ ॥ परसूक्ष्मविभागेन ततो मन्त्रात्मना स्मरेत् । [ परसूक्ष्मोभयात्मनाऽवस्थितस्य मन्त्रात्मस्वरूपस्य भावनम् ] परं ज्योतिर्मयं रूपमाहादानन्दलक्षणम् ॥ २३ ॥ 1तु हयं A. 2 सी CL,
For Private and Personal Use Only