________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानमयागारल्यानं
अथ मानसयागाख्यानं नाम द्वादशः पटलः ।
श्रीभगवान्एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा ।
मानसेन तु यागेन ततो विष्णुं समर्चयेत् ॥ १॥ [ मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपमान्तानां
__षण्णां कल्पनाप्रकारः] नाभिमेदान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् । कालाग्निं च तदूर्ध्वं तु अनन्तं तस्य चोपरि ॥२॥ तदूधै वसुधां देवीं चतुर्भिः पूरितां स्मरन् । कन्दानाभ्यवसानाच चतुद्धा भाजितैः पदैः ॥ ३ ॥ नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् । सहस्रदळपर्यन्तं सहस्रकिरणावृतम् ।। ४ ।।
[पद्मस्योपरिपीठकल्पनम् ] सहस्ररश्मिसङ्काशं तत्पृष्ठे चासनं न्यसेत् ।
[ तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनाप्रकारः ] धर्म ज्ञानं च वैराग्यमैश्वर्य च चतुर्थकम् ॥५॥ अवतार्य स्वमन्त्रेण आग्नेयादिचतुष्टये ।। चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ ६ ॥ पीठपादचतुष्के तु सितास्सिह्मानना अमी। शरीरात्पुरुषाकाराः परोत्साहसमन्विताः ॥ ७ ॥ तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् । न्यस्याधर्म तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ ८॥ पुरुषाकृतयस्त्वेते बन्धूककुमुमोज्वलाः । मागीशानदिगन्ते तु मागानेयदिगन्तरे ॥९॥ यातुवारुणमध्ये तु वायव्यवरुणान्तरे । ऋग्वेदाचं चतुष्कं तु पीतं हयनराकृतिम् ॥ १० ॥ ईशानसोमदिग्मध्ये अन्तकामिदिगन्तरे । याम्यराक्षसमध्ये तु सौम्यसामीरणान्तरे ॥ ११॥ कृताचं युगसहूं च कृष्णं वृषनराकृतिम् । सर्वे चतुर्भुजास्त्वेते द्वाभ्यां सन्धारयन्ति च ॥ १२ ॥
१३
For Private and Personal Use Only