________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यानं अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना । इत्येवं मन्त्रसामर्थ्य पुरा ज्ञात्वा यथार्थतः ।। ५० ॥
[मुद्रामन्त्रपूर्वकमावाहनम् ] सन्निधानं भवेधेन पूजाकाले घुपस्थिते । मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः ।। ५१॥ पूरकेण द्विजश्रेष्ठ मनसा समुदीरयेत् । समाहूय ततः पश्चान्मूर्तिमन्त्रेण चेतसा ।। ५२ ॥ ध्यानोक्तां कल्पयेन्मूर्ति तस्य हृत्पद्ममध्यगाम् । परेणाधिष्ठितं ध्यायेन्मूलमन्त्रं ज्वलत्पभम् ॥ ५३ ।।
[आवाहितस्य तस्य संमुखीकरणम् ] सम्मुखीकरणं कुर्यान्मन्त्रमूर्तेजिात्मनः । आत्ममन्त्रादितो भूयो मन्त्रैस्सर्वैश्च पूर्ववत् ॥ ५४ ॥ करन्यासं विना देहे न्यासं तस्य च संस्मरेत् । पुष्पमर्थ्य तथा धूपं दीपं माल्यं विलेपनम् ॥ ५५ ॥ चेतसा सादरेणैव पाद्यपूर्व च भक्तितः । प्रणाममथ चाष्टाङ्गं जयशब्दांश्च मानसान् ॥५६॥ कृत्वा भगवते ब्रह्ममुद्रां वै संपदर्शयेत् । स्वागतं तव देवेश सन्निधिं भज मेऽच्युत ॥ ५७ ॥ गृहाण मानसीं पूजां यथार्थपरिभाविताम् । ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं 'प्रभुम् ॥ ५८ ॥
[अथ विस्तरेण मानसयागारम्भः ] विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् । सङ्कल्पजनितद्रव्यैः पवित्रैरक्षयैः शुभैः ॥ ५९ ॥ सर्वकामप्रदं देवं मन्त्रमूर्तिधरं यजेत् । अभ्यङ्गोद्वतने पूर्व स्नानं चाथ विलेपनम् ॥ ६०॥ वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेध च । हारकेयूरकटकैर्मकुटैर्भूषितं स्मरेत् ॥ ६१ ॥ चित्रेण कटिसूत्रेण हेमरत्नमयेन च । माणिक्यरचितैश्शुदैर्मुक्ताहारैश्च भूषयेत् ॥ ६२ ॥ I वि A.
For Private and Personal Use Only