________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ११ शरजालोपमं स्मृत्वा माकारं चासनादहिः ॥ ६॥ समाकारं तु संस्थान कवचेनावकुण्ठयेत् । ज्वलत्कञ्चकरूपेण
[ न्यासप्रयोजनम् ]
यथा सिद्धादिषु द्विज ॥ ७॥ गगनस्थेष्वदृश्यः स्यादाचरेन्यासमात्मनः । अगुप्तस्य यतो वीर्य मनजस्याहरन्ति ते ।। ८ ।। तस्मादनेन विधिना त्वादौ गुप्ति समाचरेत् । हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ ९ ॥
[ हस्तन्यासः] अङ्गुष्टे मूलमनं तु मूर्तिमन्त्रसमन्वितम् । एवमेव क्रमेणैव तर्जन्यादिषु देवताः ॥ १० ॥ कनिष्ठान्तासु वै सर्वा न्यस्य चागानि योजयेत् । कनिष्ठिकाधासु ततो हृदयादीन्यनुक्रमात् ॥ ११ ॥ अस्त्रमगुष्ठके यावत्कराग्रेषु च लोचनम् । नृसिहा दक्षिणे इंस्ते वामे च कपिलं न्यसेत् ॥ १२ ॥ वामहस्तादि चोभाभ्यां वराहं चाङ्गुलीषु च । कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ॥ १३ ॥ दक्षिणे मध्यतः पद्मं शङ्ख वामतले न्यसेत् । अनन्तारं च तत्रैव चक्रमस्त्रं महाप्रभम् ।। १४ ॥ गदां च दक्षिणे हस्ते ज्वलन्तीं स्वेन तेजसा । अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ॥ १५ ॥ गारुडं विन्यसेन्मन्त्रं दशस्वङ्गलिषु क्रमात् । वामहस्ततले पाशमङ्काशं दक्षिणे तथा ॥ १६ ॥ क्रमेण हृदयाघेन उभयोर्हस्तयोर्यसेत् । सत्यादि चानिरुद्धान्तमौपाङ्गं बीजपञ्चकम् ॥ १७ ॥ नखाधामणिबन्धान्तं कृत्स्ने पाणियुगे ततः । न्यसेत्सप्ताक्षरं मन्त्रं सर्वमञोपरि स्थितम् ॥ १८॥ अनेन विधिना पूर्व हस्तन्यासं समाचरेत् ।
[ देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम् ]
For Private and Personal Use Only