________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १०-११]
मन्त्रन्यासविधिः
शक्क्यायो मन्त्रसवोऽथ धारणेश्वरपञ्चकम् ॥ ९७ ॥ तेषां विभवसङ्ग्रो यः पिण्डस्तत्सामुदायिकः । स्मरेज्वालीकृतं सर्वमपृथक्च पृथक् स्थितम् ॥ ९८ ॥ स्थूलसूक्ष्मपराख्येन त्रिविधेन तु नारद । करणेनोदिता सम्यक्शुद्धिरेषा च भौतिकी ॥ ९९ ॥ भक्तस्त्वं भावितात्मा च स्थिरबुद्धिरतन्द्रितः।। प्रियोऽपि मे यथा तेन सरहस्या प्रकीर्तिता ॥ १०॥ यथा त्वं मयि विमेन्द्र त्वय्येवं यो भविष्यति । तस्येदं प्रकटीकुर्यान्तरस्याधरस्य च ॥ १०१ ॥ परं भवहरं पुण्यं समाधि भूतशुद्धिदम् । केवलं यस्समभ्यस्येत्स याति ब्रह्म शाश्वतम् ॥ १०२॥ अनेन किं पुनर्विप्र चित्तं विग्रहसंयुतम् ।
संस्तुत्य यो यजेदेवं भावितात्मा प्रसन्नधीः ॥ १०३॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां समाधिख्यापनं नाम दशमः पटलः।
अथ मन्त्रन्यासविधिर्नाम एकादशः पटलः । संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् । येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ १ ॥ पूजादौ सर्वकार्याणामधिकारश्च जायते । भवेदै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ २ ॥ यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले । विजयश्चापमृत्यूनां स्यायेन विहितेन च ॥ ३ ॥
[आसनपरिकल्पनम् ] क्षितावुपरि विन्यासं यत्पुरा फलकोदितम् । तस्मिंश्वोपरि विन्यासं समुद्रं पद्मसंयुतम् ॥ ४ ॥ स्वेन स्वेन तु मत्रेण ध्यानयुक्तेन यत्नवान् । ताये चैव ततो न्यस्य ध्यात्वा चोपविशेत्ततः ॥ ५॥
[ आसनाद्बहिः प्राकारपरिकल्पनम् ] दिशो विरेच्य चास्त्रेण पुनरेव मुहुर्मुहुः । 1 मन्त्रेण A. 2 फलकादिकम्.
For Private and Personal Use Only