________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ११]
मन्त्रन्यासविधिः
वैभवी 'परमा शक्तिर्दृच्चक्रकुहरान्तगा ॥ १९ ॥ वायव्यं रूपमास्थाय दशधा संव्यवस्थिता । इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः ॥ २० ॥ नाडीदशकमाश्रित्य ता एवाङ्गलयो मताः । अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ॥ २१ ॥ पूर्व मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् ।
[ देहन्यासः] विग्रहे मन्त्रसङ्घातं यथावदवधारय ॥ २२ ॥ आमूर्धश्चरणान्तं च मूलमन्त्रं पुरा तनौ । व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोऽन्तिमम् ॥ २३ ॥ मूर्तिमन्त्रेण वै कुर्यान्यासं सर्वाङ्गकं ततः । मूर्ध्नि वक्त्रेऽसयुग्मे च मात्सव्येतरे हृदि ।। २४ ॥ पृष्ठे नाभौ तथा कव्यां जानुनोरथ पादयोः । क्रमेण हावसानं च नायं द्वादशवर्णकम् ॥ २५ ॥ मूर्तिमन्त्रं तु विन्यस्य देवतां तु ततो न्यसेत् । वामस्कन्धे तथा लक्ष्मी कीर्ति दक्षिणतो न्यसेत् ॥ २६ ॥ जयां दक्षिणपाणिस्थां मायां वामे तथा न्यसेत् । हृदयादीनि चाङ्गानि विन्यसेत्तदनन्तरम् ॥ २७ ।। स्तनान्तरे तु हृन्मत्रं शिरोमनं च मूर्धनि । चूडिकां च शिखास्थाने स्कन्धयोः कवचं ततः ॥ २८ ॥ नेत्राभ्यां विन्यसेन्नेत्रमस्त्रं पाणितले द्विज । नृसिलं दक्षिणे श्रोत्रे कपिलश्च कृवाटिके ॥ २९ ॥ वामश्रोलावधौ न्यस्य वाराहं मत्रनायकम् । वक्षसः कौस्तुभं मध्ये कण्ठे च वनमालिकाम् ॥ ३०॥ पद्मादींश्च ततः माग्वदूरुभ्यामन्तरे द्विज । गरुडाख्यं महामन्त्रमथोपाङ्गं गणं न्यसेत् ॥ ३१ ॥ क्रमेण वाऽनिरुद्धन प्रथमं द्विजसत्तम ।
पादयोस्तिशीर्ष च नाभौ हृदि शिखावधौ ॥ ३२ ॥ 1 चरमा C. L.
For Private and Personal Use Only